________________
हरिवंशपुराणं ।
१३५
षष्ठः सर्गः ।
आवस्थिविमानानां माहेंद्रे त्र्युत्तरे शते । ब्रह्मलोकस्थितानां तु षडशीत्या शतद्वयं ।। ६९ ।। चतुर्णवतिरेव स्युस्तानि ब्रह्मोत्तरेऽपि च । शतं लांतवकल्पे च पंचविंशतिमिश्रितं ॥ ७० ॥ चत्वारिंशतथैकं च कापिष्टे शुक्रनामनि । अष्टापंचाशदेकोना महाशुक्रे तु विंशतिः ॥ ७१ ॥ शतारे पंच पंचाशत् सहस्रारे दशाष्टभिः । आनते शतमुद्दिष्टं चत्वारिंशच्च सप्तभिः ॥ ७२ ॥ प्राणते पुनरष्टाभिश्चत्वारिंशत्तथारणे । शतं विंशं ततात्रिंशन्नवभिः पुनरच्युते ॥ ७३ ॥ चत्वारिंशत्तु पंचाग्रा सैवैकाग्रा प्रकीर्णके । सप्तत्रिंशद् यथासंख्यमधाग्रैवेयकात्रके ॥ ७४ ॥ विमानानि त्रयस्त्रिंशदेकान्नत्रिंशदेव च । पंचविंशतिरावल्यां मध्यग्रैवेयकात्रके ।। ७५ ।। एकविंशतिरूर्ध्वे तु त्रिके सप्तदशत्रिभिः । दशश्रेणीगतान्येव नवपंचकतत्परं ॥ ७६ एतेषु तु विशुद्धेषु यथास्वं मूलराशिषु । प्रकीर्णकविमानानि शेषाणीति बुधा विदुः ॥ ७७ ॥ तेषु संख्यविस्तारा विमानव्यक्तयः पुनः । चत्वारिंशत्सहस्राणि सौधर्मे नियुतानि षट् ॥ ७८ ॥ पंचैव नियुतानि स्युः कल्पे वैशाननामनि । सह षष्टिसहस्रैस्तु संयुतानि तु तानि वै ॥ ७९ ॥ सनत्कुमारकपे तु नियतं नियुतद्वयं । चत्वारिंशत्सहस्रैस्तु सहितं तदिति स्मृतिः ॥ ८० ॥
१-६४०००० । २-५६०००० । ३-२४०००० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org