SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । षष्ठः सर्गः । महेंद्रे नियुतं प्रोक्तं सह षष्टिसहस्रकैः । ब्रह्मब्रह्मोत्तरेऽशीतिसहस्राणि सहैव तु ॥ ८१ ॥ लांतवेऽपि च कॉंपिष्ठे सहस्राणि दशैव तु । चत्वारि तु सहस्राणि चतुर्भिः शुक्रनामनि ॥८२॥ पण्णवत्या नवशती त्रिसहस्री महत्यपि । शैतारे च सहस्रारे द्वादशैव शतानि तु || ८३ || अष्टाशीतिः सहैव स्यादानतप्राणताख्ययोः । द्विपंचाशत्सहैव स्यादारुणाच्युतकल्पयोः ||८४|| सर्वत्रवात्र संख्येयविस्तारास्तु चतुर्गुणाः । असंख्येयात्मविस्तारा विमानव्यक्तयः स्मृताः ||८५॥ यथास्वमिंद्रकैर्हीना नवग्रैवेयकादिषु । स्युरसंख्येयविस्तारा श्रेणीष्वन्याकृता द्विधा ||८६|| लक्षाः षोडशसंख्येयविस्तृता नव तिर्नव । सहस्राणि सहाशीत्या त्रिशती पिंडितास्तु ताः ॥८७॥ षट्शतैकान्नपचाशत् सप्तभिर्नवतिः पुनः । सहस्राणीतरा लक्षाः सप्तषष्टिरुदीरिताः ||८८|| प्राग्भारभूनरक्षेत्रमृतुः सीमंतकः समं । विस्तारेण तु संप्राप्तो बालमात्रेण चूलिकां ॥ ८९ ॥ जंबूद्वीपाप्रतिष्ठानक्षेत्र सर्वार्थसिद्धयः । त्रयोऽपि समविस्ताराः प्रोक्ता विस्तारवेदिभिः ॥ ९० ॥ सर्वश्रेणीविमानानामर्द्धमूर्ध्वमितोऽपरं । अन्येषां स्वंविमानार्थं स्वयंभूरमण वधेः ॥९१॥ १३६ १-१६००००। २–८००००। ३-१००००।४-४००४ । ५ - ३९९६ / ६ - 'श्रेणीष्वन्यास्तु ता द्विधा' इत्यपि पाठः । ७–६४९ । ८–९७००० । ९ - 'स्वविमान ' इत्यपि । १० - स्वयंभूरमणोदधिः स्वयंभूरमणोदधे' इत्यपि पाठौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy