________________
हरिवंशपुराणं ।
१३३
ः सर्गः ।
ऋतुमादद्रकं प्राहुस्त्रिषष्टिस्तस्य दिक्षु च । विमाना न्यूनता तेषामेकैकस्योत्तरेषु च ॥४३॥ तेषामृतुविमानं स्याद् विमलं चंद्रनामकं । वल्गुवीराभिधानं च तथैवारुणसंज्ञकं ॥४४॥ नंदनं नलिनं चैव कांचनं रोहितं ततः । चंचन्मारुतमृद्धीशं वैडूर्य रुचकं तथा ॥ ४५ ॥ रुचिरं च तथा च स्फटिकं तपनीयकं । मेघं भद्रं च हारिद्रं पद्मसंज्ञं ततः परं ॥ ४६ ॥ लोहिताक्षं च वज्रं च नंद्यावर्त प्रभंकरं । प्रष्टकं च जगन्मित्रं प्रभाख्यं चाद्यकल्पयोः ||४७|| अंजनं वनमालं च नागं गरुडसंज्ञकं । लांगलं बलभद्रं च चक्रं च परकल्पयोः ||४८ || अरिष्टदेवसंमतं ब्रह्मब्रह्मोत्तरद्वयं । ब्रह्मलोकेऽपि चत्वारि लक्षयेदिद्रकाणि तु ॥४९॥ लांतवे ब्रह्महृदयं लातवं च द्वयं विदुः | शुक्रमकं महाशुक्रे सहस्रारे शतारकं ॥ ५० ॥ आनतं प्राणताख्यं च पुष्पकं चानते त्रयं । अच्युते सानुकारं स्यादारुणं चाच्युतं त्रयं ॥ ५१ ॥ सुदर्शनममोघं च सुप्रबुद्धमधस्त्रयं । यशोधरं सुभद्रं च सुविशालं च मध्यमे || ५२ || सुमनः सौमनस्यं च प्रीतिकरमितीरितं । ऊर्ध्वग्रैवेयके ऽप्येवमिंद्रकत्रितयं तथा ॥ ५३॥ मध्ये चानुदिशाख्यानामादित्यमिति चेंद्रकं । सर्वार्थसिद्धिसंज्ञं तु पंचानुत्तरमध्यमं ॥ ५४ ॥ सौधर्मे च विमानानां लक्षा द्वात्रिंशदीरिताः । अष्टाविंशतिरैशाने तृतीये द्वादशैव ताः || ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org