________________
हरिवंशपुराणं ।
१३२
षष्ठः सर्गः। सहस्राणि तु पंचाशत सर्वतो मानुषोत्तरात् । प्रगत्यादित्यचंद्राद्याश्चक्रवालैर्व्यवस्थिताः ॥३१॥ नियुतं नियुतं गत्वा परितः परितः स्थिताः। चतुरभ्यधिकं शश्वदन्योन्योन्मिश्ररश्मयः ॥३२॥ धातक्यादिषु चंद्राकोः क्रमेण त्रिगुणाः पुनः। व्यतिक्रांतयुतास्ते स्युद्वीपे च जलधौ परे ॥३३॥ ज्योतिर्लोकविभागस्य संक्षेपोऽयमुदीरितः । ऊर्ध्वलोकविभागस्य संक्षेपः प्रतिपाद्यते ॥३४॥ मेरुचूलिकया सार्द्धमूर्ध्वलोकः समीरितः । उपर्युपरि तस्याः स्युः कल्पा अवेयकादयः ॥३५॥ सौधर्मः प्रथमः कल्पः परश्चैशाननामकः । सनत्कुमारमाहेंद्रौ ब्रह्मब्रह्मोत्तरौ ततः ॥३६॥ कल्पो लांतवकापिष्ठो तथैव कथितो ततः । पुनः शुक्रमहाशुको दक्षिणोत्तरदिग्गतौ ॥३७॥ शतारश्च सहस्रार आनतः प्राणतस्ततः । आरणश्वाच्युतश्चेति कल्पाः षोडश भाषिताः ॥३८॥ ग्रैवेयकास्त्रिधैव स्युरधोमध्योपरि स्थिताः । प्रत्येकं त्रिविधास्ते स्युरधोमध्योधभेदतः ॥३९॥ नवानुदिशनामानि ततोऽनुत्तरपंचकं । ईषत्प्राग्भारभूम्यंत उर्ध्वलोकः प्रतिष्ठितः ॥४०॥ लक्षाः स्वगविमानानामशीतिश्चतुरुत्तरा । नवत्या च सहस्राणि सप्त त्रिविंशदेव च ॥४१॥ त्रिषष्टिपटलानि स्युः त्रिषष्टींद्रकसंहतिः । पटलानां तु मध्येऽसावूर्वावल्या व्यवस्थिता ॥४२॥
१-लक्ष लक्षं । २-८४९७०२३ विमानानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org