________________
हरिवंशपुराणं ।
षष्ठः सर्गः। त्रीणि त्राणि तु शुक्राणां गुवंगारकसंजिनां । ग्रहाणां तद्यथासंख्या स्यात् शनैश्चरसंज्ञिनां ॥६॥ सूर्याश्चंद्राश्च तत्रस्था नक्षत्रग्रहतारकाः । ज्योतिष्काः पंचधा देवाः स्वस्थानसमनामकाः ॥७॥ पल्यं जीवंति चंद्राख्यास्तेऽधिकं वर्षलक्षया । सूर्या वर्षसहस्रेण शुक्रदेवाः शतेन तत् ।। ८ ॥ पल्यमूनं तु जीवंति गुरवोऽई ग्रहाः परे । पल्यं पादं तु ताराख्याः पादार्धं ते जघन्यतः ॥ ९॥ एकपष्टिकृता भागा या ये योजनस्य ते । षट्पंचाशत्तु विष्कंभश्चंद्रमंडलगोचरः।। १० ॥ ते चत्वारिंशदष्टाभिः सूर्यमंडेलविस्तृतिः । कोशाःशुक्रस्य विस्तारो देशोनः स बृहस्पतेः ॥११॥ अर्द्धगव्यूतिविस्तारः सर्वतः परिभाषितः । ग्रहाणां परिशेषाणां सर्वेषामपि मंडलः ॥ १२ ॥ तारमंडलमत्यल्प पादं क्रोशस्य विस्तृतं । मध्यमं साधिकं पादं क्रोशार्द्ध तु वृहत्तरं ॥१३ ॥ क्रोशस्य सप्तमा भागस्ताराणामल्पमंतरं । पंचाशन्मध्यमं दूरं सहस्रं योजनानि तत् ॥१४॥ भांति सूर्यविमानानि लोहिताक्षमयानि तु । अर्द्धगोलकवृत्तानि प्रतप्ततपनीयवत् ।। १५ ॥ तथांकमणिमूर्तीनि मृणालधवलानि तु । भांति चंद्रविमानानि कांतिसंतानवंति वै ॥ १६ ॥ अरिष्टमणिमृर्तीनि समान्यंजनपुंजकैः । भांति राहुविमानानि चंद्राकोधास्थितानि तु ॥ १७ ॥
१--५६:६१ योजनप्रमाणं चन्द्रविमानम् । २--४८२६१ योजनप्रमाणं सूर्यविमानं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org