________________
१२९
हरिवंशपुराणं।
षष्ठः सर्गः। परस्तात्तु गिरेस्तस्य तिर्यचः कर्मभूमिवत् । असंख्येया यतस्तत्र संयतासंयताश्च ते ॥ ७३२ ॥ उक्तद्वीपसमुद्रेषु पर्वतेष्वपि हारिषु । वसंति व्यंतरा देवाः किन्नराद्या यथायथं ॥ ७३३ ॥ प्रज्ञप्तिः श्रेणिक ज्ञाता द्वीपसागरगोचरा । प्रज्ञप्तिं श्रृणु संक्षेपाज्ज्योतिर्लोको लोकयोः ॥७३४।। जंबूद्वीपतदंबुधिप्रभृतिसदीपावलीसागर-प्रज्ञप्तिस्फुटसंग्रहं मुनिमतं भव्यस्य संश्रृण्वतः । संशीतिः प्रलयं प्रयाति सकला भूलोकसंबंधिनी, किं ध्वांतस्य कृतोदये मुनिरवो संतिष्ठते संहतिः।।
इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ द्वीपसागरवर्णनो नाम पंचामः सर्गः समाप्तः ।
षष्ठः सर्गः। शतानि सप्त गत्वोज़ योजनानि भुवस्तलात् । नवतिं च स्थितास्ताराः सर्वाधस्तानभस्तले ॥ १ ॥ शतानि नव गत्वोधं योजनानि धरातलात् । स्थितं व्योमतले ज्योतिः सर्वेषामुपरि स्थितं ॥२॥ ज्योतिःपटलमेतद्धि बहलं दशभिः सह । योजनानि शतं प्राप्तं सर्वतश्च घनोदधिं ॥ ३ ॥ तारकापटलाद्गत्वा योजनानि दशोपरि । सूर्याणां पटलं तस्मादशीतिं शीतरोचिषां ॥४॥ चत्वारि च ततो गत्वा नक्षत्रपटलं स्थितं । चत्वार्येव ततो गत्वा पटलं बुधगोचरं ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org