________________
१२८
हरिवंशपुराणं।
पंचमः सर्गः। त्रिशिरा इति देवी स्यादपरस्यां स्वयंप्रभे । सूत्रामणिरुदीच्यां च नित्योद्योते वसत्यसौ ॥७२०॥ विद्युत्कुमार्य एतास्तु जिनमातृसमीपगाः । तिष्ठत्युद्योतकारिण्यो भानुदीधितयो यथा ॥७२१॥ पूर्वोत्तरस्यां वैडूर्ये रुचका विदिशीरिता । तथा दक्षिणपूर्वस्यां रुचके रुचकोज्वला ॥ ७२२ ॥ दक्षिणापरदिश्यंते रुचकामा मणिप्रभे । रुचकोत्तमकेऽन्यस्यां दिशि स्याद् रुचकप्रभा ॥७२३ ॥ एतास्तु दिक्कुमारीणां स्युमर्हचारिका वराः । विदिक्षु पुनरन्यानि चतुःकूटान्यमूनि च ॥७२४॥ पूर्वोत्तरे तु विजया रत्न रत्नप्रभे पुनः । दिशि दक्षिणपूर्वस्यां वैजयंती प्रभाषिता ।। ७२५ ॥ जयंती सर्वरत्ने तु दक्षिणापरदिग्गते । रत्नोच्चयेऽपि शेषायां दिशि स्यादपराजिता ॥ ७२६ ॥ एता विद्युत्कुमारीणां स्युर्महत्चरिका इमाः । तीर्थजातकर्माणि कुर्वत्यष्टाविहागताः ॥ ७२७ ।। चतुर्दिक्षु नगस्योर्द्ध चत्वायोयतनानि च । अंजनालयतुल्यानि प्राङ्मुखानि जिनेशिनां ।।७२८॥ सविदिदिक्कुमारीणां वासकूटैर्जिनालयैः । नित्यालंकृतमूर्धासौ राजते रुचकालयः ॥ ७२९ ।। स्वयंभूरमणद्वीपमध्यदेशस्थितो गिरिः । स्वयंप्रभ इति ख्यातो भ्राजते वलयाकृतः ।। ७३० ।। मानुषोत्तरशैलस्य मध्ये तस्य च भूभृतः । भोगभूमिप्रतीभागास्तिरश्चां द्वीपवासिनां ॥७३१॥
१- अमून्यपि , इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org