________________
हरिवंशपुराणं।
१२७
पंचमः सर्गः। एतास्तीर्थकरौत्पत्तौ दिक्कुमार्यः सपर्यया । मातुरंतेऽवतिष्ठते भास्व गारपाणयः ॥७०७॥ अमोघे सुस्थिताऽपाच्यां सुप्रबुद्धे सुपूर्विका । प्रणिधिः सुप्रबुद्धाऽपि मंदरे परिकीर्तिता ।।७०८॥ दिक्कुमारी तथा ज्ञेया विमलेपि यशोधरा । लक्ष्मीमतीति रुचके कीर्तिमत्यपि कीर्तिता ।।७०९॥ दिक्कुमारी प्रसिद्धाऽसौ रुचकोत्तरवासिनी । चंद्रे वसुंधरा चित्रा सुप्रतिष्ठे प्रतिष्ठिता ॥७१०॥ अष्टौ तीर्थकरोत्पत्तावेतास्तुष्टाः समागताः । मणिदर्पणधारिण्यस्तन्मातरमुपासते ॥७११॥ अपरस्यामिलादेवी लोहिताख्ये सुरा पुनः। जगत्कुसुमकूटे स्यात् पृथिवी नलिनी तथा ॥७१२॥ पद्म पद्मावती ज्ञेया कुमुदे कांचनापि च । कूटे सौमनसाभिख्ये देवी नवमिका श्रुतिः ॥७१३।। शीतापि च यशःकूटे भद्रकूटे च भद्रिका । इमा शुभ्रातपत्राणि धारयंत्यश्वकासते ॥७१४॥ स्फटिके लंबुसा त्वंके मिश्रकेशी व्यवस्थिता । तथैवांजनके ज्ञेया कुमारी पुंडरीकिणी ॥७१५॥ वारुणी कांचनाख्ये स्यादाशाख्यो रजते तथा। कुंडले हीरिति ज्ञाता रुचके श्रीरितीरिता॥७१६॥ धृतिः सुदर्शने देवी दिक्कुमार्य इमाः पुनः । गृहीतचमरा जैनी मातरं पर्युपासते ॥ ७१७ ॥ दिक्षु चत्वारि कूटानि पुनरन्यानि दीप्तिभिः । दीपिताशांतराणि स्युः पूर्वादिषु यथाक्रम।।७१८॥ पूर्वस्यां विमले चित्रा दक्षिणस्यां तथा दिशि । देवी कनकचित्राख्या नित्यालोकेऽवतिष्ठते।।७१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org