________________
१२६
हरिवंशपुराणं।
पंचमः सर्गः। सुंदरा विशालाक्षः स्फुटिके स्फुटिकप्रभे । महेंद्र पांडुकस्तुर्यः पांडरो हिमवत्युदक् ॥ ६९४ ॥ ये मी पोडश नागेंद्राः सर्वे पल्योपमायुषः । यथायथं स्वकूटेषु प्रासादेषु वसंति ते ॥ ६९५ ॥ दिशि प्राच्या प्रतीच्यां च कुंडलाचलमस्तके । तद्द्वीपाधिपतेर्वासौ द्वे कूटे प्रकटे तयोः।। ६९६ ॥ उच्छायो मूलविस्तारो योजनानां सहस्रकं । अग्रे पंचशती मध्ये पंचाशत् सप्तशत्यपि ॥ ६९७ ।। तस्यैवोपरि शैलस्य महादिक्षु जिनालयाः । चत्वारः सदृशा मानैरंजनाद्रिजिनालयैः॥ ६९८ ।। त्रयोदशस्तु यो द्वीपो रुचकादिवरोत्तरः । तन्नामा तस्य मध्यस्थः सर्वतो वलयाकृतिः ॥ ६९९ ॥ सहस्रमवगाहः स्यादशीतिश्चतुरुत्तरा । सहस्राण्युच्छृतियासो द्विचत्वारिंशदस्य तु ॥७००॥ सहस्रयोजनव्यासं दिक्षु पंचशतोच्छूतं । शिखरे तस्य शैलस्य भाति कूट चतुष्टयं ॥७०१॥ नद्यावर्तामरः प्राच्यां पद्मोत्तर इतीरितः। स्वहस्ती हस्तिकेऽपाच्या श्रीवृक्षे नीलकोऽपरे ॥७०२॥ उत्तरे च सुरः प्रोक्तो वर्धमानेऽजनागिरिः। चत्वारो दिग्गजेंद्राख्यास्तेऽपि पल्योपमायुषः।।७०३॥ तस्यैवोपरि पूर्वस्यां कूटानामष्टकं दिशि । पूर्वोक्तकूटतुल्यं तु दिक्कुमारीभिराश्रितं ॥७०४॥ वैडूर्ये विजया देवी वैजयंती च कांचने । जयंती कनके कूटे प्राच्यरिष्टेऽपराजिता ॥७०५॥ नंदा नंदोत्तरा चोभे ते दिस्वस्तिकनंदने | आनंदाप्यंजने नांदी वर्धनांजनमूलके ।।७०६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org