________________
हरिवंशपुराणं ।
१२५
पंचमः सर्गः। पूर्वाख्यातचतुःषष्टिवनखंडांतरस्थिताः । प्रासादास्तु चतुःषष्टिवननामसुराश्रिताः ॥६८१॥ द्विषष्टियोजनोत्सेधा एकत्रिंशतमायताः । विस्तृताश्च पुरोद्दिष्टप्रमाणद्वारकाः पुनः ॥६८२।। परौ नंदीश्वरांभोधेररुणद्वीपसागरौ । अंधकारः पुनः सिंधोब्रह्मलोकांतमाश्रितः ॥६८३॥ मृदंगसदृशाकाराः कृष्णराज्यो विभिताः। अष्टौ ताश्च घनाकारा वहिस्तस्या व्यवस्थिताः।।६८४॥ अस्मिन्नल्पर्द्धयो देवा दिग्मूढाश्चिरमासते । महार्द्धकसुरैः साधं कुर्युस्तद्वार्धिलंघनं ॥ ६८५ ॥ यत्कुंडलवरो द्वीपस्तन्मध्ये कुंडलो गिरिः । वलयाकृतिराभाति संपूर्णयवराशिवत् ।। ६८६ ॥ सहस्रमवगाढोऽस्य द्विचत्वारिंश दुतिः । योजनानां सहस्राणि माणिप्रकरभासिनः ।। ६८७ ॥ सहस्रं विस्तृतिस्त्रेधा दशसप्तचतुर्गुणं । द्वाविंशं च त्रयोविंशं चतुर्विशं प्रभृत्यधः ॥ ६८८ ।। प्रत्येकं तस्य चत्वारि पूर्वाद्याशासु मूर्धनि । भांति षोडश कटानि सेवितानि सुरैः सदा ॥६८९।। पूर्वस्यां त्रिशिरा वजे दिशि पंचशिराः सुरः । कूटे वज्रप्रभे ज्ञेयः कनके च महाशिराः ॥६९०॥ महाभुजोऽपि तस्यां स्यात् कूटे तु कनकप्रभे । पद्मपद्मोत्तरोऽपाच्यां रजते रजतप्रभे ॥ ६९१ ।। सुप्रभे तु महापद्मो वासुकिश्व महाप्रभे । अपाच्यामेव वाच्यौ तौ प्रतीच्यां तु सुरा इमे ॥ ६९२ ॥ हृदयांतस्थिरोऽप्यंके महानंकप्रभेऽप्यसौ । श्रीवृक्षो मणिकूटे तु स्वस्तिकश्च मणिप्रभे ॥ ६९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org