________________
हरिवंशपुराणं ।
१२४
पंचमः सर्गः ।
वाह्यांतराणि लक्षे द्वे त्रयोविंशतिरेव च । सहस्राणि तथैव स्युरेकषष्ट्या च षट्शती || ६६८ || तासां मध्येषु वापीनां जांबूनदमयाः स्थिताः । षोडशार्जुनमूर्धानो नाम्ना दधिमुखाद्रयः ||६६९ ॥ सहस्रमवगाढास्तु तदेव दशसंगुणं । पटहाकृतयो व्यस्ता व्यायताश्च समुच्छ्रुताः || ६७०॥ परितस्ताश्चतस्रोऽपि वापीर्वनचतुष्टयं । प्रत्येकं तत्समायामं तदर्द्धव्याससंगतं || ६७१ ॥ प्रागशोकवनं तत्र सप्तपर्णवनं त्वपाक् । स्याच्चंपकवनं प्रत्यक चूतवृक्षवनं हयुदक् || ६७२ ॥ arat कोणसमीपस्था नगा रतिकराभिधाः । स्युः प्रत्येकं तु चत्वारः सौवर्णाः पटहोपमाः ||६७३ || गाढाचार्द्धतृतीयं ते योजनानां शतद्वयं । सहस्रोत्सेधविस्तारव्यायामव्ययवर्जिताः ||६७४ || तत्राभ्यंतर कोणस्था द्वात्रिंशत्सविताः सुरैः । द्वात्रिंद्राह्यकोणस्थाः प्रत्येकं त्वेकचैत्यकाः ||६७५ || aritra ज्ञेया नगा गृहमुखास्तथा । एकैकजिनगेहेन पवित्रीकृतमस्तकाः ||६७६॥ प्राङ्मुखास्ते शतायामाः पंचाशद् व्यासयोगिनः । उत्सेधेन गृहा जैनाः पंचसप्ततियोजनाः ॥६७७। अष्टोत्सेधचतुर्व्या सगाह त्रिद्वार भास्वराः । ते द्विपंचाशदाभांति नंदीश्वर जिनालयाः || ६७८|| पंचचापशतोत्सेधा रत्नकांचनमूर्त्तयः । प्रतिमास्तेषु राजते जिनानां जितजन्मनां ॥ ६७९ ॥ फाल्गुनाष्टाह्निकाद्येषु प्रतिवर्ष तु पूर्वसु । शक्राद्याः कुर्वते पूजां गीर्वाणास्तेषु वेश्मसु ॥ ६८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org