________________
हरिवंशपुराणं ।
१२३
पंचमः सर्गः ।
सहस्रपत्र संछन्नाः स्फटिकस्वच्छवारयः । विचित्रमणिसोपाना विनक्राद्याः सवेदिकाः ||६५६ || अवगाहः पुनस्तासां योजनानां सहस्रकं । आयामोऽपि च विष्कंभो जंबूद्वीपप्रमाणकः ।। ६५७ || नंदा नंदवती चान्या वापी नंदोत्तरा पैरा । नंदीघोषा च पूर्वाद्रदिक्ष प्राच्यादिषु स्थिताः । ६५८ ॥ सौधर्मेंद्रस्य भोग्याद्या द्वितीयैशानभोगिनः । तृतीया चमरेंद्रस्य चतुर्थी तु बलेरसौ ||६५९।। विजया वैजयंती च जयंती चापराजिता । दक्षिणांजनशैलस्य दिक्षु पूर्वादिषु क्रमात् || ६६०॥ शक्रस्य लोकपालानां पूर्वा तु वरुणस्य सा । क्रमाद् यमस्य सोमस्य भोग्या वैश्रवणस्य च ||६६१ ॥ पाश्चात्यांजन शैलस्य पूर्वादिदिगवस्थिताः । अशोका सुप्रबुद्धा च कुमुदा पुंडरीकिणी । ६६२ ॥ भोग्याद्या वेणुदेवस्य वेणुतालेरतः परा | धरणस्य तृतीया तु भूतानंदस्य चोत्तरा || ६६३॥ उदीच्यांजनशैलस्य प्राचाऽऽद्या सुप्रभंकरा । सुमनाच दिशासु स्यादानंदा च सुदर्शना ।। ६६ ४ || ऐशानलोकपालस्य वरुणस्य यमस्य च। सोमस्य च कुबेरस्य च भोग्यास्तास्तु यथाक्रमं ||६६५ ।। पंचषष्टिसहस्राणि चत्वारिंशच्च पंच च । अंतरं षोडशानां स्यादांतरं योजनानि तु ॥ ६६६|| मध्यांतराणि लक्षैका चत्वारिं च सहस्रकैः । द्वियोजनाधिकानि स्युस्तासां वै षट् शतानि च ॥६६७॥
१ - ' Sभिधा' इत्यपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org