________________
हरिवंशपुराणं ।
१२२
पंचमः सर्गः । देवौ गंधमहागंधौ नाथाविक्षुरसोदधेः । नंदीश्वरवरद्वीपे नंदिनंदिप्रभौ तथा ॥ ६४४ ॥ प्रभू भद्रसुभद्रौ तु नंदीश्वरवरोदधेः । अरुणद्वीपपौ देवावरुणश्वारुणप्रभः ॥ ६४५ ॥ सुगंधसर्वगंधाख्यावरुणाब्धेरधीश्वरौ । द्वौ द्वौ द्वीपाधिपावेवं परतो दक्षिणोत्तरौ ॥ ६४६ ॥ कोटीशतं त्रिषष्टयग्रमशीतिश्चतुरुत्तराः । लक्षा नंदीश्वरद्वीपो विस्तीर्णो वर्णितो जिनैः ॥६४७॥ पट्त्रिंशच्च सहस्रं च कोटयो नियुतानि च । द्वादशैव सहस्रे द्वे तथा सप्त शतानि च ॥ ६४८ ॥ योजनानि त्रिपंचाशदातरः परिधिः स च । नदीश्वरवरद्वीपसंभवी परिभाषितः ॥ ६४९ ॥ द्वासप्तत्युत्तरं कोटी सहस्रं द्वितयं तथा । नियुतानि त्रयस्त्रिंशन्नवत्या सहितं शतं ॥ ६५० ॥ पंचाशच सहस्राणि चतुर्भिरधिकानि च । वहिः परिधिरेष स्यादष्टमद्वीपसंभवी ॥ ६५१ ॥ मध्ये तस्य चतुर्दिक्षु चत्वारोंजनपर्वताः । तुंगाश्चतुरशीतिं ते व्यस्ताश्चाधासहस्रगाः ॥ ६५२ ॥ पटहाकृतयाश्चत्रा वज्रमूलाः प्रभोज्वलाः । भ्राजते पर्वताः सर्वे सर्वतस्ते मनोहराः ॥ ६५३ ॥ सुकृष्णशिखराः शैलास्ते जांबूनदमूर्तयः । विकिरंति परां कांति दिङ्मुखेषु यथायथं ॥ ६५४ ॥ गत्वा योजनलक्षां स्युमेहादिक्षु महीभृतां । चतस्रस्तु चतुष्कोणा वाप्यः प्रत्येकमक्षयाः ॥६५५॥
१ लक्षाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org