SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ११९ हरिवंशपुराणं। पंचमः सर्गः। निषधस्पृष्टभागस्थे रत्नाख्ये पूर्वदक्षिणे । वेणुदेव इति ख्यातः पन्नगेंद्रो वसत्यसौ ॥ ६०७ ॥ नीलाद्रिस्पृष्टभागस्थे पूर्वोत्तरदिगावृते । सर्वरत्ने सुपर्णेद्रो वेणुदारी वसत्यसौ ॥६०८॥ निषधस्पृष्टभागस्थं दक्षिणापरदिग्गतं । बेलबं चातिबेलंबो वरुणेंद्रो वसत्यसौ ॥६०९॥ नीलाद्रिस्पृष्टभागस्थमपरोत्तरदिग्गतं । प्रभंजनं तु तन्नामा वातेंद्रोऽधिवसत्यसौ ॥६१०॥ इत्यनेकाद्भुताकीर्णः सौवर्णो मानुपक्षितेः । प्राकार इव भात्येष मानुषोत्तरपर्वतः ॥६११।। विद्याधरा न गच्छंति नर्षयः प्राप्तलब्धयः। समुद्घातोपपाताभ्यां विनाम्मादुत्तरं गिरेः ॥६१२॥ जंबूद्वीपं यथा क्षारः कालोदोऽब्धिः परं यथा । द्वीपं तथैव पर्येति पुष्करोदोऽपि पुष्करं ।।६१३॥ वारुणीवरनामानं वारुणीवरसागरः । ततः क्षीरवरद्वीपं ख्यातः क्षीरोदसागरः ॥६१४॥ ततो घृतवरहीपं षष्ठं घृतवरोदधिः । ततश्चक्षुवरद्वीपं पर्येतीक्षुरसोदधिः ॥६१५॥ नंदीश्वरवरद्वीपं नंदीश्वरवरोदधिः । अष्टमं चाष्टमः ख्यातः परिक्षिपति सर्वतः ॥६१६॥ अरुणं नवमं द्वीपं सागरोऽरुणसंज्ञकः । अरुणोद्भासनामानमरुणोद्भाससागरः ॥६१७॥ द्वीपं तु कुंडलवरं स कुंडलवरोदधिः । ततः शंखवरद्वीपं स शंखवरसागरः ॥६१८।। रुचकादिवरद्वीपं रुचकादिवरोदधिः । भुजगादिवरद्वीपं भुजगादिवरोदधिः ॥६१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy