________________
पंचमः सर्गः ।
हरिवंशपुराणं ।
१२०
द्वीपं कुशवरं नाम्ना ख्यातः कुशवरोदधिः । द्वीपं क्रौंचवरं चापि स क्रौंचवरसागरः ||६२० || द्विगुणद्विगुणन्यासा यथैते द्वीपसागराः । नामभिः षोडश ख्याताः असंख्येयास्ततः परे ॥ ६२१९ ॥ आषोडशादतीत्यान्यान संख्यान् द्वीपसागरान् । द्वीपो मतः शिलोभिख्यो हरितालस्ततः परः ।। ६२२ सिंदूर : श्यामको द्वीपस्तथैवांजनसंज्ञकः । द्वीपो हिंगुलकाभिख्यस्ततो रूपवरः परः ||६२३|| सुवर्णवरनामातो द्वीपो वज्रवरस्ततः । वैडूर्यवरसंज्ञश्च परो नागवरस्तथा ।। ६२४ | द्वीपो भूतवरश्वान्यस्ततो यक्षवरस्ततः । ख्यातो देववरो द्वीपः परवेंदुवरस्ततः ॥ ६२५ ॥ स्वयंभूरमणाभिख्यौ सर्वांत्यौ द्वीपसागरौ । षोडशैतेऽन्धिभिः सार्द्धं स्वनामसमनामभिः ॥ ६२६ ॥ राशिद्वयांतराले स्युरसंख्या द्वीपसागराः । अनादिशुभनामान: सांतरस्थितमूर्त्तयः || ६२७ ।। लवणो लवणस्वादस्तन्नामा वारुणीरसः । धृतक्षीररसौ द्वौ च कालोदांत्यौ शुभोदकौ ।। ६२८ ।। मधूदको भयास्वादः पुष्करोदः स्वभावतः । शेषास्त्विक्षुरसास्वादाः सर्वेऽपि जलराशयः ॥ ६२९॥ लवणोदे महामत्स्याः सम्मूर्छ नजमूर्त्तयः । नवयोजनदीर्घाः स्युस्तीरे मध्ये द्विरायताः || ६३०॥ नदीमुखषु कालोदे ते त्वष्टादशयोजनाः । षट् त्रिंशद्योजना मध्ये गर्भजास्तु तदर्धकाः ॥ ६३१ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org