SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ११८ पंचमः सर्गः। कोटी तु परिधिर्लक्षा द्विचत्वारिंशदस्य च । पत्रिंशच्च सहस्राणि सप्तशत्या त्रयोदश ॥ ५९४॥ अंतश्छिन्नतटो भाति वहिद्धिक्रमोन्नतिः । सोऽभ्यंतरसुखासीनमृगाधिपतिविक्रमः ५९५ ॥ चतुर्दशगुहाद्वार दंतनिर्गमनो गिरिः । पुष्करो नंदयत्येष पूर्वापरनदीबधः ॥ ५९६ ॥ पंचाशयोजनायामास्तदर्द्धव्याससंगताः । अर्धयोजनसंवृद्धसप्तत्रिंशत्समुच्छ्रिताः ।। ५९७ ॥ अष्टोच्छ्रायचतुव्यासगुहद्वारोपशोभिताः । चत्वारो मूर्ध्नि तस्याद्रेश्चतुर्दिा जिनालयाः॥५९८ ।। तत्प्रदक्षिणवृत्तानि प्राच्यादिषु दिशासु च । इष्टदेशनिविष्टानि कूटान्यष्टादशाचले ॥ ५९९ ॥ तानि पंचशतोत्सेधमूलविस्तारवंति तु । शते चार्द्धवतीये द्वे विस्तृतान्यपि चोपरि ॥ ६०० ॥ त्रीणि त्रीणि हि कूटानि चतुर्दिक्षु विदिक्षु तु । चत्वारि वज्रमैशान्यामाग्नेय्यां तपनीयकं ॥६०१॥ प्राच्यां दिशि तु वैडूर्ये यशस्वान् वसति प्रभुः। अश्मगर्भे यशस्कांतः सुपर्णानां यशोधरः ॥६०२॥ सौगंधिके ततोऽपाच्यां रुचके नंदनस्तथा । लोहिताक्षे पुनः कूटे नंदोत्तर इतीरितः ॥ ६०३ ॥ तस्यामशानेघोषोऽपि वसत्यंजनके दिशि । सिद्धश्चांजनमूले तु प्रतीच्या कनके पुनः॥६०४ ॥ क्रमेण मानुषाख्यस्तु कूटे रजतनामनि । उदीच्यां स्फुटिके कूटे सुदर्शन इति श्रुतः ॥ ६०५ ॥ अंके मोषः प्रबालेऽस्यां सुप्रवृद्धो वसत्यसौ । तपनीये सुरस्वातिर्वजे तु हनुमानपि ॥६०६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy