________________
हरिवंशपुराणं।
पंचमः सर्गः। भागाभास्य शतं प्रोक्ताः नवातच नवापि च। वाह्योऽपि भाष्यते तस्य विष्कंभो भरतस्य तु॥५८२॥ पंचषष्टिसहस्राणि योजनानि चतुःशतैः । षट् चत्वारिंशदेतानि भागाश्चासौ त्रयोदश ।। ५८३ ॥ आविदेहं च विष्कंभाद् वर्षाद् वर्ष चतुर्गुणं । गणितज्ञविनिर्दिष्टं पर्वतादपि पर्वतः ॥ ५८४ ॥ एका कोटिः पुनला द्वाचत्वारिंशदेव ताः । त्रिंशच्चापि सहस्राणि योजनानां शतद्वयं ॥५८५॥ साधिकैकानपंचाशद् योजनानि वहिर्भवः । पुष्करार्धस्य सर्वस्य परिधिः परिभाषितः ॥५८६॥ तिम्रो लक्षाः सहस्राणि पंच पंचाशदद्रिभिः । रुद्धं क्षेत्रं शतैः षड्भिरशीत्या चतुरंतया ॥५८७।। वैताड्या वृत्तवेदाड्यास्तथा वर्षधरादयः । निजोत्सेधावगाहाभ्यां तैर्जबूद्वीपजैः समाः ॥५८८॥ धातकीखंडकेभ्यस्तु विष्कंभा द्विगुणा मताः। पुष्करार्द्ध समौ प्राग्भ्यांमिष्वाकारौ च मंदरौ ॥५८९।। मानुषक्षेत्रविष्कंभश्चात्वारिंशच्च पंच च । लक्षास्त्वर्धतृतीयौ तौ द्वीपौ वार्धिद्वयान्वितौ ॥५९०।। योजनानां सहस्रं तु सप्तशत्येकविंशतिः । उच्छ्रायः सच्छ्यिस्तस्य मानुषोत्तरभूभृतः ॥ ५९१॥ सक्रोशोऽपि च सत्रिंशदवगाहश्चतुःशती । द्वाविंशत्या सहस्रं तु मूलविस्तार इष्यते ॥ ५९२ ॥ प्रयोविंशतियुक्तानि मध्ये सप्त शतानि तु । विस्तारोऽस्योपरि प्रोक्तचतुर्विशा चतुःशती ॥५९।।
१ नवत्याऽपि इत्यपिपाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org