________________
११६
हरिवंशपुराणं।
पंचमः सर्गः। शिशुमारमुखाश्चैव मकराभमुखास्तथा । विजया द्वयोपांत्ये कालोदजलधौ स्थिताः ॥ ५७० ॥ मयो हिमवतारग्रे वृकव्याघ्रमुखाः स्थिताः । शगालाक्षमुखाश्चाग्रे शिखरिश्रुतिभूभतोः ॥५७१॥ स्थिता द्वीपिमुखाश्चाग्रे भंगराराजतागयोः । वाह्याभ्यतरयारंतजगत्याद्वैप्यमानवाः ॥ ५७२ ॥ आयुवर्णगृहाहारैः समा गत्यापि लावणैः । सहस्रमवगाढास्ते द्वीपाश्छिन्नतटांबुधौ ॥ ५७३ ॥ कालोदस्थाः प्रवेशेन द्वीपाः पंचशताधिकाः । मता द्विगुणविस्तारा लवणेभ्यः कुमानुषैः ।। ५७४ ॥ चतुर्विशतिरंतस्थास्तावंतश्च वहिः स्थिताः। लवणोदस्थितैः सर्वैः द्वीपाः षण्णवतिस्तु ते ॥ ५७५ ।। कालोदं पुष्करद्वीपः परिष्कृत्य द्विमंदरः । स्थितो द्विगुणविष्कंभः पृथुपुष्करलांछनः ॥ ५७६ ॥ मानुषक्षेत्रमर्यादा मानुषोत्तरभूभृता । परिक्षिप्तस्तु तस्याः पुष्करार्द्धस्ततो मतः ॥ ५७७ ॥ इष्वाकाराद्रिणाप्येष दक्षिणेनोत्तरेण च । विभक्तो भिद्यते द्वेधा स पूर्वश्चापि पश्चिमः ॥५७८॥ प्रत्येकं मेरुमध्यौ तौ धातकीखंडखंडवत् । क्षेत्रपर्वतनद्यायैः पूर्वनामभिरन्वितौ ॥ ५७९ ॥ चत्वारिंशत्सहस्राणि सहस्रं पंचशत्यपि । सप्ततिर्नव चांशास्तु त्रिसप्तत्युत्तरं शतं ॥ ५८० ॥ भरतांतरविष्कभो मध्यो द्वादशयोजनैः । त्रिपंचाशत्सहस्राणि शतैः पंचभिरेव च ॥ ५८१ ॥
१ तथा च मकरामुखाः । इत्यपि पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org