________________
हरिवंशपुराणं ।
११५
पंचमः सर्गः ।
अन्योन्याभिमुखादेशा वक्षारनगसिंधवः । तटयोः सदृशायामः शीताशीतोदयोः स्थिताः ॥ ५५७ ॥ पूर्वान्मंदरतः पूर्वैर्विदेहैरपरैरिमैः । पाश्चात्यादपरे पूर्वे ते समाः स्युर्यथाक्रमं ॥ ५५८ ॥ चत्वारिंशच्च चत्वारस्तद्वीपे शतमेव च । जंबूद्वीपसमाः खंडा गणितस्य समं पुनः ।। ५५९ ।। कोटीनामेकलक्षा स्यात्सहस्राणि त्रयोदश । शतान्यष्टौ तथैका सा चत्वारिंशच्च कोटयः ।। ५६० ।। नवभिर्नवतिर्लक्षा पंचाशत्सप्तभिः सह । सहस्राणि शतैः षद्भिरेकषष्टष्टयुत्तरैस्तथा ।। ५६१ ॥ द्वीपं च धातकीखंडं परिक्षिपति सर्वतः । द्वीप द्विगुणविस्तारः कालः कालोद सागरः ॥ ५६२ ॥ तस्यैकनवतिर्लक्षाः सहस्राणि च सप्ततिः । षट् शती साधिका पंच पर्यंतपरिधिर्मतः ॥ ५६३ || षट् शतानि च कालोदे द्वासप्ततिरितस्ततः । जंबूद्वीपसमा : खंडा पंडितैरिह पिंडिताः || ५६४ ॥ पंच लक्षास्तु कोटीनामेकत्रिंशत्सहस्रकैः । शतद्वयं द्विषष्टिश्व कोटयः प्रकटाः स्थिताः ।। ५६५ ।। लक्षाश्चैव चतुःषष्टिर्नवषष्टिसहस्रकैः । कालोदभावशीतिश्च गणितस्य पदं मतं ।। ५६६ ।। कालोदे दिशि निश्श्रेयाः प्राच्य । मुदकमानुषाः । अपाच्यामश्वकर्णास्तु प्रतीच्यां पक्षिमानुषाः ॥५६७॥ उदीच्यां गजकर्णाश्च शूकरास्या विदिक्षु तु । उष्ट्रकर्णाश्च गोकर्णाः प्राच्येभ्यो दक्षिणोत्तराः || ५६८।। गजकर्णाश्वकर्णानां मार्जारास्यास्तु पार्श्वयोः । पक्षिणां गजवक्त्राश्च कर्णप्रावरणाः स्थिताः ॥५६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org