SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ११४ पंचमः सर्गः । लक्षाः षट् च सहस्राणि चतुःसप्ततिरष्ट च । शतानि योजनानां सा द्वाचत्वारिंशता सह ॥ ५४४ ॥ एकविंशतिलक्षाश्च चतुस्त्रिंशत्सहस्रकैः । त्रिंशदष्टौ पुनस्तस्याः सूच्या परिधिरिष्यते || ५४५ ।। व्यापी विजयविस्तारः सहस्राणि नवात्र हि । षट्शती त्रितयं च स्यादष्टभागास्त्रयस्तथा ॥ ५४६ ॥ स्वायामःक्षेत्रवक्षारविभंगसरितां त्रिधा । सदेवरमणानां स्यादादिमध्यांतभेदतः || ५४७ ॥ कच्छाख्यविजयायामः पंचलक्षाः सहस्रकैः । नवभिः पंचशत्याधः सप्तत्या द्विशतांशकैः ||५४८ || विजयायामवृद्धाद्यो युक्तो मध्योऽस्य जायते । मध्येऽपि चतयायामो युक्तोंऽत्यो द्वयादिकेष्वपि ॥ पूर्वस्य विजयस्याद्रेरायामः सरितोऽपि वा । अंत्यो यः स पुरस्याद्यो विजयाद्यो व्यवस्थितः ॥ ५५० ॥ विजयायामवृद्धिश्च सहस्रं तु चतुर्गुणं । शतानि पंच चाशीतिचत्वारि च समीरिता ||५५१ || वक्षारायामवृद्धिस्तु सप्तसप्ततिसंयुता । चतुःशतीति संख्याता षष्टिश्च सकलाः कलाः ।। ५५२ ।। साविभंगनदीवृद्धिः शतमेकोनविंशतिः । कलाचैव द्विपंचाशदिति वृद्धिविदो विदुः ।। ५५३ ॥ सप्तशत्या सहस्रे द्वे तथाशीतिर्नवाधिका । देवारण्यायते वृद्धिर्वर्ण्या द्वानवतिः कलाः || ५५४ ।। स्थानक्रमात्रिकं द्वे च षट् चत्वारि नवद्विकं । पद्माजनपदायामः शतं षण्णवतिः कलाः ।। ५५५ ।। आ यो वृद्धिnivisit मध्यो मध्योऽत एव हि । वक्षारक्षेत्रनद्यादौ वेद्यमेवं यथाक्रमं ।। ५५६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy