________________
हरिवंश पुराणं ।
११३
पंचमः सर्गः ।
लक्षा सप्त सहस्राणि शतान्यष्टौ च दीर्घता । नवसप्ततिरप्यस्य भद्रशालवनस्य तु ॥ ५३२॥ षट् पंचाशत्सहस्राणि तिस्रो लक्षा शतद्वयं । सप्तविंशतिरायामो गंधमादनविद्युतोः || ५३३ || नवषष्टिसहस्राणि लक्षाः पंच शतद्वयं । एकोनषष्टिरायामो माल्यवत्सौमनस्यगः || ५३४ || द्वे लक्षे च सहस्राणि त्रयोविंशतिरेव च । कुलाद्यंते कुरुव्यासः शतं पंचाशदष्ट च ॥ ५३५ || तिस्रो लक्षाः सहस्राणि नवतिः सप्त चाष्ट तु । शतानि सप्त नवतिर्भागा द्वानवतिस्त्वयं ॥ ५३६॥ वक्रायामः कुरूणां स्यादामेरोराकुलाचलात् । पूर्वार्धेऽपि च पश्चार्द्धे धातकीखंडमंडले || ५३७|| तिस्रो लक्षाः सहस्राणि षट्षष्टिः षट् शतान्ययं । ऋज्वायामः कुरूणां स्यादशीतिश्वोभयांतयोः ॥ ५३८ प्रतिमेरु विदेहाश्च द्वात्रिंशत्पूर्ववन्मताः । पूर्वे पूर्वविदेहाख्या अपरे त्वपरे स्थिताः || ५३९॥ पूर्वस्मान्मंदरात्पूर्वः कच्छाजनपदोऽवधिः । अपरादपरः सूच्या विजयो गंधमालिनी ||५४० ॥ एकादशैव लक्षा हि सा सूचिः पंचविंशतिः । सहस्राणि शते तस्मादष्टापंचाशता सह ॥ ५४१|| लक्षाश्चास्याः परिक्षेपः पंचत्रिंशत्प्रकाशितः । द्वाषष्टिश्चाष्टपंचाशत्सहस्राणि प्रमाणतः ॥ ५४२ ॥ पद्मादिर्गृह्यते सूचीमंगलावत्यधिष्ठिता । सा पूर्वापरयोर्मेवरिंतराले तु या स्थिता ||५४३ ||
१ - विज्ञेय इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org