SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । पंचमः सर्गः । पांडुकं च सहस्राणि गत्वाष्टाविंशतिः पृथुः । चतुर्णवतिसंयुक्ता योजनानां चतुःशती ॥५१९ ॥ शतान्यर्द्धचतुर्थानि सहस्राणि नवापि च । नंदने मंदरस्यायं विष्कंभः परिभाषितः || ५२०॥ सप्तषष्टिसहस्रार्द्धमे कोनत्रिंशदेव च । सहस्राणि परिक्षेपो नंदने मंदराद् वहिः ||५२१॥ शतान्यर्द्धचतुर्थानि सहस्राण्यष्ट नंदनात् । विना मंदरविष्कंभः स चाभ्यंतर ईरितः ||५२२|| षड्विंशतिसहस्राणि पंचाग्रा च चतुःशती । परिधिमंदरस्यैष नंदनांतरगोचरः ||५२३॥ वाह्यस्त्रीणि सहस्राणि विष्कंभोऽष्टौ शतानि च । मेरोः सौमनसे सांतः सहस्रेण विवर्जितः || ५२४ ॥ वास्तस्य सहस्राणि द्वादशैव हि षोडश । मंदरस्य परिक्षेपो वने सौमनसे स्थितः || ५२५|| अष्टौ चैव सहस्राणि तथैवाष्टौ शतानि च । चतुःपंचाशदप्यतः परिधिस्तस्य तद्वने ॥ ५६ ॥ द्वापष्ट्यैकं शतं त्रीणि सहस्राणि च पांडुके । गव्यूतं साधिकं बोध्यः परिधिर्मेरुभूभृतः । ५२७|| नंदनात् स मरुद्रोऽद्रिः सहस्राणि दशोपरि । हानिस्तत्र क्रमादेवं वनात्सौमनसादपि || ५२८ || दशमो दशमो भागो मूलात्प्रभृति हीयते । प्रदेशांगुलहस्तादिश्चतुर्णां मेरुभूभृतां || ५२९॥ पुष्करिण्यः शिलाः कूटः प्रासादाचैत्यचूलिकाः । समानाः पंचमेरूणां व्यासावगाहनोच्छ्रयैः॥ ५३० शतानि द्वादशैव स्यात्पंचविंशति विस्तृतिः । भद्रशालवनस्यैषा धातकीखंडवर्तिनः ॥ ५३१ ॥ Jain Education International ११२ For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy