SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १११ पंचमः सर्गः । षड्गुणः स्वावगाहस्तु कुंडानां विस्तृतिर्भवेत् । नदीहृदावगाहोऽपि पंचाशद्गुणितश्च सः ||५०७|| उच्छ्रायश्चैत्यगेहस्य सार्द्धा ज्ञेयः शताहतः । जंबूप्रभृतयस्तुल्या महावृक्षा दशापि ते ||५०८|| नद्यः सरांस्यरण्यानि कुंडपद्मा नगा हृदाः । अवगाहैः समाः पूर्वैर्विस्तारैर्द्विगुणाः परैः ||५०९ || चैत्य चैत्यालया ये ते वृषभा नाभिपर्वताः । चित्रकूटादयश्वापि तथा कांचनकाद्रयः ॥ ५१० ॥ दिशा गजेंद्रकुटानि यथास्थं वेदिकादयः । व्यासावगाहनोच्छ्रायैः सर्वे द्वीपत्रये समाः ॥ ५११ ॥ अर्धयोजनमुद्विद्धं व्यस्तं पंचधनुःशती । प्रत्येकं सर्वकूटानां विदितं रत्नतोरणं ॥ ५१२॥ अशीतिश्च सहस्राणि चत्वारि च समुच्छ्रयः । चतुर्णामपि मेरूणां परयोद्वपियोर्भवेत् ॥ ५१३ ॥ सहस्रमवगाढाच मेदिनीं ते तु मेरवः । सहस्त्राणि नवव्यस्ता मूले पंच शतानि च ॥ ५१४॥ त्रिंशदे॒व सहस्राणि द्वाचत्वारिंशता सह । तेषामेव विनिर्दिष्टः परिधिर्मूलगोचरः ॥५१५॥ नव चैव सहस्राणि चतुःशतयुतानि तु । चतुर्णामपि मेरूणां भूमौ विष्कंभ इष्यते ॥ ५१६ ॥ एकोनत्रिंशदेव स्युः सहस्राणि शतानि च । पंचविंशति सप्तैव परिधिर्वसुधातले ॥ ५१७॥ सहस्रार्थं च गत्वोर्ध्वं नंदनं भूतिविस्तृतं । पंच पंचाशतं पंचशतीं सौमनसं वनं ॥ ५९८ ॥ १ - सहस्रनवविस्तारा | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy