________________
हरिवंशपुराणं ।
११०
पंचमः सर्गः ।
पूर्वापरौ महामेरोद्वौ मेरू भवतोऽस्य च । इष्वाकारौ विभक्तारौ पर्वतौ दक्षिणोत्तरौ ॥ ४९४ || सहस्रयोजनव्यास द्वीपव्याससमायतौ । उच्छ्रायेणावगाहेन निषधेन समौ च तौ ।। ४९५ ।। क्षेत्राणि भरतादीनि सप्त षट् कुलपर्वताः । हिमवत्पूर्वका द्वीपे तत्रापि परमंदरं ।। ४९६ ॥ पूर्वैः सहैकनामानः सर्वे नगनदीहृदाः । समोच्छ्रायावगाहाः स्युस्तेभ्यो द्विगुणविस्तृताः || ४९७|| अररंध्राकृतीन्यंकमुखान्यभ्यंतरे बहिः । क्षुरप्राकृतवंति स्युः शैलक्षेत्राणि तानि च ॥ ४९८ ॥ लक्ष्या पर्वतैरूर्ध्वं सहस्राण्यष्टसप्ततिः । द्विचत्वारिंशदष्टौ च शतानि क्षेत्रमत्र च ॥ ४९९ ॥ षट् योजनसहस्राणि पट् शतानि चतुर्दश । भरतांतर विष्कंभः शतं विंशं नवांशकाः || ५०० ॥ क्षेत्राणां च भवेच्छेदो द्विशती द्वादशोधरा । एकोनविंशतिस्तत्र छेदः पर्वतगोचरः ॥ ५०१ ॥ द्वादशैव सहस्राणि तथा पंच शतानि च । एकाशीतिश्च षट् त्रिंशत्कला मध्यमविस्तृति ः ||५०२ ॥ अष्टादश सहस्राणि पंचशत्यपि सप्त तु । चत्वारिंशद्वहिर्भागाः पंच पंचाशता शतं ॥ ५०३ ।। विष्कंभत्रितयं ज्ञेयमाविदेहं चतुर्गुणं । क्रमेण परतो हानिर्यावदैरावतक्षितिः ||५०४ || पूर्वस्माद् द्विगुणो व्यासो हिमवत्पूर्वकाद्रिषु । द्वादशष्वपि च द्वीपे तेभ्यः पुष्करनामनि ॥ ५०५ || भूभृतोऽर्द्ध तृतीयेषु वृक्षावक्षार वेदिकाः । मेरुं वर्ज्य विगाहते चतुर्भागं निजोच्छ्रितेः ||५०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org