________________
हरिवंशपुराणं ।
१०९
पंचमः सर्गः । जंबूद्वीपस्य यावन्तो द्वीपा : निकटवर्तिनः । तावतो धातकखिंड - द्वीपस्य लबणोदजाः ||४८ १ || अष्टादश कुलास्तेषु पल्यायुष्काः कुमानुषाः । एकोरुगाः गुहावासाः मृष्टमृद्भोजनास्तु ते ||४८२|| शेषपुष्पफलाहाराः वृक्षमूलनिवासिनः । एकांतराशनाः मृत्वा जायंते भौमभावनाः || ४८३ || जंबूद्वीपजगत्या च समुद्रजगतीसमा | अभ्यंतरे शिलापट्टे बहिस्तु वनमालिका ||४८४ ॥ चतुर्गणस्तु विस्तारो द्वीपस्य जलधेस्तथा । सूचीभवेत्त्रिभिर्च्यूनः तदन्ते मण्डलेऽखिले ||४८५ || विस्ताररहिता सूची चतुर्व्यासगुणा तु या । तावन्तस्तु भवत्यस्य जंबूद्वीपसमांशकाः || ४८६ ।। स्युश्चतुर्विंशतिर्मागा लवणद्वीपसंमिताः । षड्गुणास्ते परद्वीपे काले सप्तचतुर्गुणाः || ४८७ ।। द्वे सहस्त्रे शतान्यष्टावशीतिरपि चोत्तराः । जंबूद्वीपसमा भागाः पुष्करद्वीपभाविनः || ४८८ ॥ द्वीपोऽपि धातकीखंडः पर्येति लवणोदधिं । योजनानां चतुर्लक्षा विस्तीर्णो वलयाकृतिः ॥४८९ ॥ सूचिरभ्यंतरा पंच - लक्षा नव तु मध्यमा । वाह्या त्रयोदश द्वीपो धातकीखंडमंडिते ॥ ४९० ॥ परिधिः पूर्वसूच्यास्तु लक्षाः पंचदशोदिताः एकाशीतिसहस्राणि शतं त्रिंशन्नवाधिकं ॥ ४९१ ॥ स चाष्टाविंशतिर्लक्षा मध्यायाः षट्सहस्रकैः। चत्वारिंशत्सहस्राणि पंचाशद् योजनानि च ॥ ४९२ ॥ वाह्यसूच्यास्त्वसौ लक्षाश्चत्वारिंशत्सहैकया । शतानि नव षष्ट्यैकं सहस्राणि दशापि च ॥४९३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org