SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ हरिवंशपराणं । १०८ पंचमः सर्गः । अष्टाविंशतिसंख्यानि सहस्राणि यथायथं । अग्रोदकमुदग्रं तु नागानां धारयति च ॥ ४६८॥ द्वादशैव सहस्राणि वारिधावपरोत्तरं । तावत्येव सहस्राणि विस्तृतः सर्वतः समः ॥ ४६९ ॥ गोतमो नामतो द्वीपो गोतमस्तस्य चामरः । सोऽपि कौस्तुभदेवेन परिवारादिभिः समः ॥४७०॥ मास्त्वेकोरुकाः पूर्वे दक्षिणे तु विषाणिनः । लांगुलिनोऽपरे च स्युरुत्तरेऽभाषकास्तथा ॥४७१॥ विदिक्षु शशकर्णास्तु चतसृष्वपि भाषिताः । एकोरुकोत्तरा प्राच्योरश्वासंहमुखाः क्रमात् ।।४७२।। शष्कुलीकर्णनामानः पार्श्वयोस्तु विषाणिनां । श्वमुखा वानरास्या ये ते लांगलिकपार्श्वयोः ॥४७३॥ अभाषकांतयोश्चापि शष्कुलीकर्णमानुषाः। गोमुखा मेषवक्त्राः स्युर्विजया|भयांतयोः ॥४७४॥ हिमवत्प्राक्प्रतीच्योः स्युरुल्काकालमुखा नराः। मेघविद्युन्मुखाः प्राच्यप्रतीच्योः शिखरिश्रुतेः।४७५ आदर्शगजवक्त्राख्या विजयातियोर्मताः । चतुर्विशतिरेव स्युर्तीपाश्चापि तदाश्रयाः ॥४७६॥ गत्वा पंचशतीं दिक्षु विदिक्ष्वंतरदिक्षु च । पंचाशतं च ते द्वीपाः षट्शती मुखपर्वताः ॥४७७॥ दिग्गताः शतरुंद्राः स्युः पंचविंशतिमद्रिजाः। रुंद्रा पंचशतं द्वीपा विदिश्वंतरदिक्षु च ॥४७८॥ ते पंचनवतं भागं स्वप्रदेशस्य चाप्लुताः । जलायोजनमुद्विद्धवेदिकापरिवारिताः ॥४७९।। तेनैव षोडशाभ्यस्तमुपरिष्टाजलावृताः । संकलज्याधरं बोई क्षेत्र वाच्यं जलावृतं ॥४८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy