________________
हरिवंशपुराणं ।
पंचमः सर्गः। मुक्तावलीवदेतेषामंतरालेषु चाष्टसु । समुद्रे क्षुद्रपातालसहस्रमवतिष्ठते ॥४५५॥ सहस्रमवगाहश्च मध्यविष्कंभ एव च । योजनानां शतं तेषां विस्तारो मुखमूलयोः ॥४५६॥ पंचविंशशतं तानि प्रत्येकं चांतरेऽतरे । द्विहीनाष्टशती कोशः सविशेषस्तदनंतरं ॥४५७|| यथायोगपरावृत्तसलिलाप्लवविप्लवाः। पातालौघाः समस्तास्ते क्षुद्राश्च परिकीर्तिताः ॥ ४५८ ॥ तटाद्गत्वा सहस्राणि द्वाचत्वारिशतं समौ । चतुर्दिक्षु सहस्रोच्चैः द्वौ द्वौ स्यातां तु पर्वतौ ॥४५९।। कौस्तुभः कौस्तुभासश्च पातालस्योभयांतयोः । राजतावर्द्धकुंभाभौ तत्सुरौ विजयश्रियौ ॥४६०॥ उदकश्चोदवासश्च कदंबुकसमीपगौ । शिवश्च शिवदेवश्च तयोर्देवो यथाक्रमं ।। ४६१ ॥ नगौ शंखमहाशंखौ वडवामुखपार्श्वगौ । शंखाभावुदकश्च स्यादुदवासश्च तत्सुरौ ।। ४६२ !! उदकोऽप्युदवासोऽपि यूपकेसरपार्थगौ । रोहितो लोहितांकश्च तत्सुरौ परिकीर्तितौ ॥ ४६३ ॥ योजनानां तु लक्षका सहस्राणि च षोडश | अंतरं पर्वतानां स्यान्निजपातालमूर्तिभिः ॥४६४॥ नागवेलंधराधीशा गिरिमस्तकवर्तिषु । वसंति नगरेष्वेते नागेलंधरैः सह ।। ४६५ ॥ नागानां च सहस्राणि द्विचत्वारिंशदंबुधौ । लवणाभ्यंतरां वेलां धारयति नियोगतः ॥ ४६६ ॥ द्वासप्ततिसहस्राणि बाह्ये वेलां जलाकुलां । धारयति सदा नागा जलक्रीडादृढादराः ॥ ४६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org