SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । पंचमः सर्गः । प्राच्यां पातालमाशायां प्रतीच्यां बडवामुखं । कदंबुकमपाच्यां स्यादुदीच्यां यूपकेसरं ॥४४३॥ तन्मूलमुखविस्तारः सहस्राणि दश स्मृतः। गाहस्वमध्यविस्तारावेका लक्षेति लक्षिती ।।४४४॥ अलंजलसमानानि पातालानि समंततः । बाहुल्यं वचकुडयानां तेषां पंच शतानि तु ॥४४५।। त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतत्रयं । एकैकोऽत्र विभागः स्याद् योजनानां तु भागवान् ॥४४६॥ ऊर्ध्वभागे जलं तेषां तृतीये केवलं सदा । मूले च बलवान् वायुमध्यभागे क्रमेण तौ ॥४४७॥ वायोरुच्छासनिश्वासौ पातालेषु स्वभावजौ । तद्वशादुदकस्योर्ध्वमधश्च परिवर्तनं ॥४४८।। भागः पंचदशःशुक्ले वायुभिः पूर्यते शनैः । पातालानां जलैः कृष्णे स्थिति स्यात्पंचसंधिषु ॥४४९॥ लक्षद्वयं सहस्राणि सप्तविंशतिरंतरं । शतं सप्ततिरेषां स्यात पादोनं योजनं पृथक् ॥४५०।। विदिक्षु क्षुद्रपातालचतुष्कं मुखमूलयोः । सहस्रं विस्तृतं दैर्घ्यमध्यविस्तारतो दश ॥४५१॥ चतुर्णामपि तेषां स्यात्पंचाशत्कुडचविस्तृतिः। एकैकस्य त्रिभागेषु प्रागिवांमःप्रभंजनौ ।।४५२॥ त्रियोजनसहस्राणि त्रयस्त्रिंशं शतत्रयं । सत्रिभागं त्रिभागानां प्रत्येकं योजनस्थितिः॥४५३॥ एकलक्षा सहस्राणि त्रयोदश निजांतरं। पंचाशीति त्रयोऽष्टांशः कुंडानां दिग्विदिस्थितं॥४५४॥ १-रेव इत्यपि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy