________________
हरिवंशपुराणं।
१०५
पंचमः सगे। लक्षाः पंचदशाशीत्या सहस्रं च शतं तथा । त्रिंशन्नव च देशोना परिधिर्लवणांबुधेः ॥ ४३१ ॥ अष्टादश सहस्राणि कोटया नवशतान्यपि । त्रिसप्ततिश्च निश्चेया लक्षाः षह्माष्टरवे च ॥४३२॥ सहस्राणि च पंचाशन्नव तानि च षट्शती । गणितस्य पदं वेद्यं प्रकीर्ण लवणार्णवे ।। ४३३ ॥ दशैवोपरि मूले च सहस्राणि दश स्मृतः । सहस्रमवगाढोऽतो ध्रुवाण्येकादशोच्छितः ॥४३४॥ तटांतात्पंचनवति देशान् गत्वाऽवगाहते । देशमेकमधश्चैवमंगुलादि सयोजनं ।। ४३५ ॥ स गत्वा पंचनवतिं देशां देशांश्च षोडश । उच्छ्रितों गुलहस्तादीन योजनानि च सागरः ॥४३६॥ शुक्ले पंचसहस्राणि यावत्तावत् प्रवर्धते । पक्षे प्रहीयते कृष्णे यावदेकादशैव सः ॥ ४३७ ॥ त्रिशती च त्रयस्त्रिंशद् योजनानि दिने दिने। त्रिभागं वर्धते वार्धिः शुक्ले कृष्णेच हीयते ॥४३८॥ मक्षिकापक्ष्मसूक्ष्मांतो वेदिकांते पयोनिधिः। स चोर्ध्व मानतो यस्तु योजनार्द्ध प्रवर्द्धते ॥४३९॥ पक्षष्टि द्वे शते दंडा द्वौ हस्तौ षोडशांगुली। शुक्ले कृष्णे च ते स्यातां वृद्धिहानी दिने दिने ॥४४०।। अधः संक्षेपणी द्रोणी विस्तीर्णोध्वं क्षितौ दिवि।अन्यथा नौ पुटांभोधिः समो वा यवराशिना॥४४१।। जगत्याः पंचनवतिं सहस्राणि प्रविश्य तु । मध्ये स्युर्दिक्षु चत्वारि पातालविवराण्यधः ॥४४२॥
१-१८९७३६६५९६००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org