________________
१०४
हरिवंशपुराणं।
पंचमः सर्गः। अभिषेकसभा तत्पागलंकारसभाप्यतः । व्यवसायसभा तस्मात् संसमानाः सुधर्मया ॥४१९॥ पंचैव च सहस्राणि चत्वारोऽपि शतानि च । सप्तषष्टिश्च ते सर्वे प्रासादा विजयास्पदे ॥४२०॥ वहिर्विजयपुर्यास्तु पंचविंशतियोजनीं । गत्वा वनानि चत्वारि स्युः प्राच्या दिक्चतुष्टये ॥४२१॥ अशोकवनमादौ च सप्तपणेवनं ततः । स्याचंपकवनं नाम्ना तथा चतवनं ततः॥४२२।। योजनानां सहस्राणि द्वादशायाम इष्यते । शतानि पंचविस्तारास्तेषां मध्ये तु पादपाः ॥४२३॥ अशोकः सप्तपर्णश्च चंपकञ्चूतपादपः । जंबूपीठाद्धमानश्च पीठा जंबूर्द्धमानकाः ॥४२४॥ चतस्रः प्रतिमास्तेषु चतुर्दिक्षु यथायथं । अशोकादिसुरैरा जिनानां रत्नमूर्तयः ॥४२५।। वनस्योत्तरपूर्वस्यामशोकपुरमत्र च । मानेन विजयस्येव प्रासादोऽशोकनायकः ॥४२६॥ सप्तपर्णपुरं पूर्वदाक्षणस्यां वनस्य तु । सप्तपर्णपुरस्यात्र प्रासादः पूर्वमानकः ॥४२७॥ दाक्षणापरादिग्भागे चंपकस्य पुरं वनात् । अपरोत्तरदिग्भागे पुरं भूतामरस्य च ।। १२८ ॥ वैजयंतादयो देवा विजयस्य समास्त्रयः । दाक्षणादिपुरार्धाशाः स्वालयायुःपरिच्छदैः ॥ ४२९ ।। योजनानां तु लक्षे द्वे विस्तीर्णो लवणार्णवः । परिक्षिप्य स्थितो द्वीपं परिखेव सवेदिकः ॥४३०॥
१-जम्ब्वर्ध ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org