SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण । १०३ पंचमः सर्गः । तेषामन्ये महादिक्षु चत्वारस्तत्समानकाः। द्वितीयमंडले ज्ञेयाः प्रासादा रत्नभास्वराः॥४०७॥ पूर्वमानार्द्धमानाश्च नृतीये मंडले स्थिताः । तत्समानाश्चतुर्थे तु प्रत्येकं दिक्चतुष्टये ॥ ४०८ ॥ चतुर्थेभ्योऽर्द्धहीनाश्च पंचमे मंडले स्थिताः । षष्ठे तु तत्समानस्ते प्रत्येकं दिक्चतुष्टये ॥ ४०९ ॥ लेणवेदिकया तुल्या वेदिका मंडपद्वये । अधाधमाना सा वेद्या मंडलस्य द्वये द्वये ॥ ४१०॥ प्रासादे विजयस्यात्र सिंहासनमनुत्तरं । सचामरसितच्छत्रं तत्र पूर्वमुखोऽमरः ॥ ४११॥ उत्तरस्यां सहस्राणि षट् सामानिकसंज्ञिनः । विदिशोऽस्य पुरः षट् स्युरग्रदेव्यश्च सोसनाः॥४१२॥ आसन्नष्टौ सहस्राणि परिषत्पूर्वदक्षिणाः । मध्यमा दश बोधव्या दक्षिणस्यां दिशि स्थिताः॥४१३॥ द्वादशैव सहस्राणि वाह्या साऽपरदक्षिणाः । आसनेष्वपरस्यां च सप्तसैन्यमहत्तराः ॥४१४॥ अष्टादश सहस्राणि चतुर्दिश्वात्मरक्षकाः । भद्रासनानि तेषां च दिक्षु तावंति तासु च ॥४१५॥ अष्टादश सहस्राणि देव्यश्च परिवारिकाः । विजयः सेव्यमानैस्तैः पल्यं जीवंति साधिकं ।।४१६॥ विजयादुत्तराशायां सुधर्माख्या तु तत्सभा। दीर्घा षट् विस्तृतात्रीण नवोच्चैः कोशगाहिनी॥४१७॥ ततोऽप्युत्तरदिग्भागेतावन्मानो जिनालयः । अपरोत्तरतश्चास्मादुपपार्था समा भवेत् ।।४१८॥ १ तृतीयमंडलप्रमाणा । २ विदिशि षट् महादेवीनां आसनानि । ३-दशसहस्राणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy