________________
हरिवंशपुराणं ।
१०२
पंचमः सर्गः ।
धनुःसहस्रमेकं च पुनः पंच शताति तु । द्वात्रिंशच्च धनुः पृष्ठमंगुलानां च सप्तकं ।। ३९५ ॥ चतुर्योजनहीनं तु तदेव परिनिश्चितं । द्वाराणा मंतरं तेषामंतरज्ञैः परस्परं ॥ ३९६ ॥ संख्येयद्वीपपर्यंतो जंबूद्वीपसमोऽपरः । विजयस्य पुरं तत्र पूर्वस्यां दिशि शोभते || ३९७|| तद् द्वादशसहस्राणि विस्तृतं वेदिकायुतं । चतुस्तोरणसंयुक्तं रुचिरं सर्वतोद्भुतं ॥ ३९८ ॥ साष्टभागं त्रिकं चाग्रे मूले तत्तु चतुर्गुणं । तत्प्राकारस्य विस्तारस्तस्य नाहोऽर्द्धयोजनं ॥ ३९९॥ प्राकारस्योच्छ्रयस्तस्य सप्तत्रिंशत्तथार्द्धकं । गोपुराणि चतुर्दिक्षु प्रत्येकं पंचविंशतिः ॥४००|| एकत्रिंशत्सगव्यूतिविस्तारो गोपुरस्य च । उच्छ्रायो द्विगुणस्तस्माद् गाहः स्यादर्धयोजनं ॥ ४०१ ॥ भूमिभिः सप्तदशभिः प्रासादा गोपुरेषु तु । सर्वरत्नसमाकीर्णा जांबूनदमयाश्च ते ||४०२|| गोपुराणां तु मध्ये स्यादौपपादिकैलेणकं । गव्यूतिवहलं व्यासः शतानि द्वादशास्य च ॥ ४०३॥ पंचचापशतव्यासा गव्यूतिद्वयमुच्छ्रिता । चतुस्तोरणसंयुक्ता वेदिका तस्य सर्वतः ॥ ४०४ || मोपुरेण समो मानैः प्रासादः पुरमध्यगः । अष्टोच्छ्रायश्चतुर्व्यासो द्वारो विजयसेवितः || ४०५ || स द्वारवंशश्च हेमरत्नकपाटकः । चतुर्दिक्षु पुनस्तस्य प्रासादास्तत्समानकाः ||४०६ || १ देवीनामुत्पादस्थानं । २ तत्स्वामी देवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org