________________
हरिवंशपुराणं ।
१०१
पंचमः सर्गः ।
पंचाशच्चापविस्ताराः शतचापसमायताः । पंचसप्ततिमुच्चैस्तु प्रासादास्तत्र चाल्पकाः || ३८३|| षट् चापविस्तृतान्येषां द्वादशोच्छ्रायवंति च । चत्वारि चापगाढानि द्वाराणि लघुवेश्मनां ॥ ३८४ ॥ द्विगुणात्रिगुणाश्च स्युर्व्यासायामोच्छ्रयैरतः । मध्यमाश्चोत्तमास्तेषां द्विद्विर्द्वारावगाहनं ||३८५|| मालावलीकदल्याद्याः प्रेक्षासनसभागृहाः । वीणागर्भलता चित्रप्रसाधनमहाग्रहाः || ३८६ ॥ मोहनास्थानसंज्ञाश्च रम्या रत्नमया गृहाः । सर्वतस्तत्र शोभते व्यंतरामरसेविताः || ३८७|| हंसंक्रौंचासनैर्मुडैर्मृगेंद्रमकरासनैः । स्फाटिकैरुन्नतैर्नयैः प्रबालगरुडासनैः ||३८८|| दीर्घस्वस्तिकवृत्तैस्तैर्विपुलेंद्रासनैरपि । गंधासनैश्च रत्नाढयैर्युक्ताः सुरमनोरमैः ॥ ३८९ ॥ विजयं विजयंतं च जयंतमपराजितं । द्वाराण्यस्यां जगत्यां स्युः प्राच्यादौ दिक्चतुष्टये ॥ ३९०॥ अष्टच्छ्रायं चतुर्व्यासं नानारत्नांशुरंजितं । द्वारमेकैकमत्र स्याद् भास्वद्वज्रकवाटकं ॥ ३९९ ॥ दश सप्तशती चान्या सहस्राणि च सप्ततिः । त्रयः क्रोशाश्चतुर्विंशा चतुर्दशशती युगैः || ३९२ ॥ हस्तात्रय गुलानि स्यादेकविंशतिरेकशः । तेषां दिशांतरज्यासौ द्वाराणां तु प्रमाणतः || ३९३ || अस्या ज्यायाः सहस्राणि सप्ततिर्नव चोदितं । सह षड्भिश्च पंचाशद् गव्यूतित्रितयं तथा ।। ३९४ ।। ९ - आसनानां नामानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org