SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १०० पंचमः सर्गः । उदग्रो मंडपोऽप्यग्रे ततः प्रेक्षागृहं बृहत् । स्तूपाचैत्यद्रुमाचान्ये पर्यकप्रतिमोज्ज्वलाः || ३७१ ॥ मत्स्य कूर्मविमुक्तश्च प्रसन्नसलिलः शुभः । दिशि नंदो हृदः प्राच्यां सिद्धायतनतो भवेत् ॥ ३७२ ॥ वज्रमूलः सवैडूर्यचूलिको मणिभिश्वितः । विचित्राश्चर्यसंकीर्णः स्वर्णमध्यः सुरालयः || ३७३ ॥ मेरुचैव सुमेरुश्च महामेरुः सुदर्शनः । मंदरः शैलराजश्च वसंतः प्रियदर्शनः || ३७४ || रत्नोच्चयो दिशामादिलोंकनाभिर्मनोरमः । लोकमध्यो दिशामंत्यो दिशामुत्तर एव च ॥ ३७५॥ सूर्याचरणविख्यातिः सूर्यावर्तः स्वयंप्रभः । इत्थं सुरगिरिश्रेति लब्धवर्णैः स वर्णितः || ३७६॥ इति व्यावर्णितं द्वीपं परिक्षिपति सर्वतः । पर्यंतावयवत्वेन सास्यैव जगती स्थिता ||३७७|| मूले द्वादश मध्येऽष्टौ चत्वार्यग्रे च विस्तृता । अष्टच्छ्रयाऽवगाढा तु योजनार्द्धमधो भुवः || ३७८॥ सर्वरत्नात्ममध्या सा वैडूर्यमयमस्तका । मूले वज्रमयी भासा भासयंती दिशः स्थिता । ३७९ ।। पंच चापशतव्यासा मूलाग्रे चापि वेदिका । गव्यूतिद्वितयोच्छ्राया जगत्या मध्यमासृता ॥ ८० ॥ वेदिकाभ्यंतरे कांतं देवारण्यं वनं वहिः । सत्सौवर्णशिलापट्टे वापी प्रासादशोभितं ॥ ३८९ ॥ धनुःशतं शतं सार्द्धं विस्तृताश्च शतद्वयं । न्यूनमध्योत्तमा वाप्यो गांधाः स्वं स्वं दशांशकं ॥ ३८२॥ १ - १५० धनूंषि । २-गाध्यः इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy