________________
हरिवंशपुराणं ।
पंचमः सर्गः। विजयाद्धेषु सर्वेषु सिद्धायतनगोचरं । मानं तदेव बोद्धव्यं विजयाट्टै भरते तु यत् ॥ ३५९ ।। अष्टायामो द्विविस्तारः सर्वेषु तनुरुच्छ्रितः। देवच्छंदोऽवगाढश्च गव्युतिस्तेषु वेश्मसु ॥ ३६० ॥ शुभद्रत्नमहास्तंभः शातकुंभात्मभित्तिभिः । चंद्रादित्योत्पतत्पक्षिमृगयुग्माद्यलंकृतः ॥३६१ ॥ रत्नकांचननिर्माणाः पंचचापशताच्छ्रिताः । अष्टोत्तरशतं तत्र जिनानां प्रतिमा मताः ॥३६२।। नागयक्षयुगे तासां प्रत्येकं सप्रकीर्णके । सनत्कुमारसदृशे निवृत्तिश्रुतम्रातिभिः॥ ३६३ ॥ भंगारकलशादशेपात्रीशंखाः समुद्गकाः । पालिकाधूपनीदीपकूचोः पाटलिकादयः ।। ३६४ ॥ अष्टोत्तरशतं ते पि कंसतालनकादयः । परिवारोऽत्र विज्ञेयः प्रतिमानां यथायथं ॥ ३६५ ॥ गवाक्षरोहजालानि मुक्ताजालानि भांति वै । मणिविद्रुमरूपाञ्जकिंकिणीजालकानि च ॥३६६॥ षट् च चत्वारि च द्वे च मूले मध्ये च मस्तके । विस्तृतश्चतुरुच्ट्रायः सौवर्णःक्रोशगाहकः॥३६७॥ अष्टोच्छ्रायश्चतुासश्चतुस्तोरणदिङ्मुखः । प्राकारः प्रतिवेश्म स्यात् पंचाशत्तुंगगोपुरः ।। ३६८॥ सिंहहंसगजांभोजदुकूलवृषभध्वजैः । मयूरगरुडाकीर्णश्चक्रमालामहाध्वजैः ॥ ३६९ ॥ दशार्द्धवर्णभासद्भिर्दशभेदैर्दिशो दश । साशीतिकसहस्रांतांति पल्लविता इव ॥ ३७० ॥
१-सचामरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org