________________
हरिवंशपुराणं ।
पंचमः सर्गः। प्रासादादिकमत्राऽपि पूर्ववत्सर्वमिष्यते । यथैतन्नंदने वेद्यं तथा सौमनसे वने ॥३४६॥ दिशि चोत्तरपूर्वस्यां पांडुके पांडुका शिला । पांडुकंबलया सार्द्ध रक्तया रक्तकंबला ।। ४७॥ विदिक्षु सक्रमा हैमी राजती तापनीयिका । लोहिताक्षमयी चार्द्धचंद्राकाराश्च ताः शिलाः ॥३४८।। अष्टोच्छ्याः शतायामाः पंचाशद्विस्तृताश्च ताः। यत्राहतोऽभिषिच्यते जंबूद्वीपसमुद्भवाः ॥३.९॥ रक्तापांडुकयोर्दैर्घ्य दक्षिणोत्तरतः स्थितं । तत्पूर्वापरतः शेषशिलयोस्तु विशालयोः ॥३५०॥ । चापं पंचशतोच्छ्रायं मूलव्यासोपि यस्य सः । प्रत्येकं तन्महारत्नं तत्र सिंहासनत्रयं ।।३५१।। ऐंद्र दक्षिणमेतेषामैशानं तूत्तरं मतं । मध्यस्थितं तु जैनेंद्र प्राङ्मुखानि च तान्यपि ॥३५२।। भारतापरवैदेहा ऐरावतविदेहजाः। जिना वाल्ये सुरस्नाप्यास्तासु तेषु यथाक्रमं ।। ३५ ॥ पांडुके संति चत्वारो महादिक्षु जिनालयाः । सर्वरत्नमहादिव्या नित्या ह्यकृतकत्वतः ॥३५४॥ पंचविंशतिरायामः साद्धोद्वादश विस्तृतिः। अद्धनाशोऽवगाहः स्यादुच्छाया ष्टादश निपाद्।।३५५ द्वारस्य चोच्छ्यस्तेषां चतुर्योजनसंमितः । द्वे तु विस्तृतिरस्यार्द्धमणुद्वारद्वयस्य हि ॥ ३५६ ॥ वने सौमनसे तेषां तदेव द्विगुणं भवेत् । कुलवक्षारशैलेषु मानं सौमनसोदितं ।। ३५७ ॥ नंदने भद्रशाले च जिनायतनगोचरं । प्रत्येकं द्विगुणं मानं तद् यत्सौमनसे वने ।। ३५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org