SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। पंचमः सर्गः। ततः परं प्रसिद्धान्या सुमेघा मेघमालिनी। तोयधारा विचित्रा स्यात् पुष्पमाला त्वनिंदिता ॥३३३।। पूर्वदक्षिणदिग्भागे वाप्यो मेरुमहीभृतः। पूर्वा तत्पलगुल्माख्या नलिना चोत्पला परा ॥३३४॥ उत्पलोज्ज्वलसंज्ञा स्यात् तासां पंचाशदायतिः। अवगाहो दश ज्ञेयो विस्तारः पंचविंशतिः।।३३५॥ आसांमध्ये च शक्रस्य प्रासादः समवस्थितः। योजनान्यस्य गव्यत्या सैकस्त्रिंशत्तु विस्तृतिः।।३३६ उच्छ्राहः पुनरुद्दिष्टो द्वाषष्टिवायोजनः । अवगाहः प्रमाणेन प्रासादस्याईयोजनः ॥३३७॥ सिंहासनं सुरेंद्रस्य तस्य मध्येऽवतिष्ठते । स्वदिक्षु लोकपालानामासनानि भवंति च ॥३३८।। तस्यैवोत्तरपूर्वस्यामपरोत्तरतोऽपि च । तत्र सामानिकानां तु भांति भद्रासनानि तु ॥३३९॥ पुरोऽप्यष्टाग्रदेवीनां तत्र भद्रासनानि हि । सासना परिषन्मुख्याः पूर्वदक्षिणतस्तथा ॥३४०॥ मध्यमा दक्षिणस्यां स्याद्वाह्या चापरदक्षिणा । त्रायस्त्रिंशाश्च तत्र स्युः पश्चात्सैन्यमहत्तराः।।३४१।। चतसृष्वात्मरक्षाणां दिक्षु भद्रासनान्यपि । आसेव्यतेऽत्र तैरिंद्रः पूर्वाभिमुखमास्थितः ।।३४२।। झंगा भुगनिभाप्यन्या कज्जला कज्जलप्रभा। पुष्करिण्यश्च वापीनां समास्त्वपरदक्षिणाः ॥३४३॥ श्रीकांता प्रथमावापी श्रीचंद्रा चापरोत्तरा। तथा श्रीमहितैशाना भोग्या श्रीनिलया ततः॥३४॥ तथा चोत्तरपूर्वस्यां वापी तु नलिनाभिधा । ततो नलिनगुल्मापि कुमुदा कुमुदप्रभा ।।३४५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy