SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ९६ पंचमः सर्गः । भवनानां परिक्षेपमुखव्यासोच्छ्रया इह । त एवार्धीकृता बोध्या नंदनस्थितसमनां ॥ ३२० ॥ लोकपालास्त एवात्र देवाः सोमयमादयः । क्रीडति स्वेच्छया स्त्रीभिस्तावतीभिर्यथायथं ॥ ३२१ ॥ लोहितांजन हारिद्र पांडुराख्यानि पांडुके । वेश्मान्यूर्ध्वस्वनामानि तावत्कन्यानि तान्यपि ॥ ३२२ ॥ स्वयंप्रभविमानेशः सोमोऽसौ पूर्वदिक्प्रभुः । रक्तवाहननेपथ्यः सार्द्धपल्यद्वयस्थितिः ॥३२३॥ सष्टिसहस्राणां विमानानां प्रभावतां । षट्षष्टिषट्शतानां च षट्लक्षाणां च भोजकः ॥ ३२४ ॥ तथाऽरिष्टविमानेशो यमो दक्षिणदिक्प्रभुः । सार्द्धपल्यद्वयायुष्कः कृष्णनेपथ्यवाहनः || ३२५ || जलप्रभविमानेशो वरुणो वारुणीप्रभुः । तथैव पीतनेपथ्यः त्रिभागोनत्रिपल्यकः || ३२६॥ वल्गुप्रभविमानेशः कौबेरीप्रभुरिष्यते । कुवेरः शुक्लनेपथ्यः सत्रिपल्योपमस्थितिः ॥ ३२७॥ मेरोरुत्तरपूर्वस्यां नंदने बलभद्रके । कूटे कांचनकैस्तुल्ये कूटनाम्नामरो भवेत् ||३२८|| नंदनं मंदरं कूटं निषधं हिमवच्च तत् । रजतं रजकं नाम्ना तथा सागरचित्रकं ॥ ३२९॥ वज्रकूटं विनिर्दिष्टमष्टमं तु मनीषिभिः । दिशं दिशं प्रति द्वे द्वे स्यातां कूटे यथाक्रमं ॥ ३३० ॥ उच्छ्रायो मूलविस्तारस्तेषां पंचशतानि तु । तदर्धं मस्तके मध्ये त्रिशती पंचसप्ततिः ||३३१॥ दिक्कुमार्यस्तु कटेषु तेष्विमा: प्रतिपादिताः । मेघंकरा तु पूर्वा स्यात् तथा मेघवती परा ॥ ३३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy