SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। पंचमः सर्गः। परिक्षेपो वनं चान्यन्नंदनं चोपनंदनं । वनं सौमनसं चान्यदुपसौमनसं तथा ॥३०८॥ पांडुकं दशमं प्रोक्तमुपपांडुकमंत्यजं । मेरोरेकादश ज्ञेयाः परिक्षेपाः परीक्षकैः ॥३०९॥ देशेष्वेकादशानां तु पूरणेषु हि मंदरः । मौलविष्कंभभागानामेकैकेन प्रहीयते ॥३१०॥ सर्वत्रांगुलमानादौ यावद् योजनमानकं । हानिवृद्धी इति ग्राह्ये मेरुविस्तारगोचरे ॥३११॥ एकादश सहस्राणि योजनानि तु मंदरः । समरंद्रो नंदनादूर्ध्व वनात्सौमनसात्तथा ॥३१२॥ पंचमेषु प्रदेशेषु चूलिकैकेन हीयते । तथांगुलादिमानेषु योदनांतेष्वयं क्रमः ॥३१३।। साधिकैकादशांशाभ्यां लक्षस्यास्युत्तरं शतं । दैर्घ्य योजनलक्षस्य मेरोः पार्श्वभुजाद्वयं ॥३१४॥ पण्याख्यं दिशि पूर्वस्यांदक्षिणस्यां च वारणं । गंधर्वमपरस्यां स्यादुत्तरस्यां च चित्रकं॥३१५॥ भवनं नंदने तेषां त्रिंशत्स्यान्मुखविस्तृतिः । पंचाशद्योजनोच्छ्रायः परिधिर्नवतिः स्मृता ॥३१६॥ पण्याख्ये रमते सोमवारणाख्ये यमो यथा । गांधर्वे वरुणश्चित्रे कुवेरः सपरिच्छदः ॥३१७॥ चत्वारोऽपि ते दिक्षु लोकपालाः पृथक् पृथक् । साद्धोभिस्तु त्रिकोटीभि. स्त्रीणां क्रीडति संतत।३१८ वज्र वज्रप्रभ नाम्ना सुवर्णभवनं भवेत् । सुवणेप्रभमप्यकं दिक्षु सौमनसे वने ॥३९॥ १-चारणं इत्यमि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy