________________
हरिवंशपुराणं ।
९४.
पंचमः सर्गः। सहस्राणि द्विषष्टिं च गत्वा पंचशतीं ततः । नंदनेन समानं तद् वनं सौमनसं भवेत् ॥ २९५॥ चत्वारि च सहस्राणि शते द्वे च द्विसप्ततिः। अष्टौ भागाश्च विष्कंभो वाह्यस्तत्र भवेगिरेः॥२९६॥ परिक्षेपः पुनस्तस्य सहस्राणि त्रयोदश । शतं पंचतयं ज्ञेयमेकादश च षट् कलाः॥२९७।। बाह्यो यो गिरिविष्कंभः सहस्रेण स वर्जितः । स्यादभ्यंतरविष्कभस्तस्येति मुनयो विदुः ॥२९८॥ ईषदनपरिक्षेपः सहस्राणि दश स्मृतः । त्रिशत्येकानपंचाशत्त्रयश्चेकादशांशकाः ॥ २९९॥ स्याद् षट्त्रिंशत्सहस्राणि गत्वाद्री पांडुकं वनं । चतुर्नवतिसंयुक्ता तद्विस्तारश्चतुःशती ॥३०॥ द्विषष्टियोजनान्यत्र सहस्त्रात्रतयं शतं । गव्यूतं साधिक मेरोः परिधिः परिकीर्तितः ॥ ३०१॥ चत्वारिंशत्तमुद्विद्धा मूर्ध्नि वैडूर्यचूलिका । मूलमध्यांतविस्तारैद्वादशाष्टचतुर्विधा । ३०२॥ सप्तत्रिंशद्भवेन्मूले मध्ये स्यात् पंचविंशतिः। चूलिकायाः परिक्षेपो द्वादशाग्रे च साधिकाः ॥३०३॥ पार्थिवाः षड्परिक्षेपाश्चूलिकायाः प्रभृत्यधः । एकादशप्रकारोऽन्यः सप्तमोपि वनैः कृतः॥३०४॥ लोहिताक्षमयः पूर्वः पद्मरागमयः परः । तथा वज्रमयः सर्वरत्नो वैडूर्यविग्रहः ॥३०५॥ हरितालमयः षष्ठस्तेषां प्रत्येकमिष्यते । पंचशत्यपि विस्तारः सहस्राण्यपि षोडश ॥३०६॥ भद्रशालवनं भूमौ मानुषोत्तरमेव च । सदेवनागभूतानां रमणानि वनानि च ॥३०७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org