________________
हरिवंशपुराणे ।
९३
पंचमः सर्गः ।
द्वाविंशति सहस्रे द्वे शतानि नव विस्तृताः । योजनानि पुनस्तेषां वेदिका भद्रशालवत् ॥ २८२॥ विदेहक्षेत्र मध्यस्थ कुरुक्षेत्रद्वयावधिः । योजनानां सहस्राणि नवतिर्नव चोच्छ्रिता || २८३ || मेखलात्रयसंयुक्तः ख्यातो मेरुमहीधरः । ऊर्ध्वं चूलिकयोद्भासी सचत्वारिंगदुच्चयः ||२८४|| सहस्रमवगाहोऽस्य सहस्राणि दशान्त्र च । विष्कंभो नवतिश्च स्याद् दशैकादशभागकाः ॥ २८५॥ कत्रिशत्सहस्राणि शतानि नव वै दश । योजनानि तथा भागौ साधिको परिधिर्गिरेः ।। २८६ ॥ तलात् सहस्रमुद्गत्य सहस्राणि दशोपरि । योजनानि स विष्कंभो भूमौ भवति भूभृतः ॥२८७॥ सैकस्त्रिंशत्सहस्राणि षट्शती विंशतिद्वयं । योजनानि त्रयः क्रोशाः शते द्वादश दंडकाः ॥२८८॥ हस्तास्त्रयस्तथैव स्यादंगुलानि त्रयोदश । साधिकानि परिक्षेपो भद्रशालेऽद्विगोचरः ॥ २८९॥ गत्वा पंचशतीमूर्ध्व मेखलायां तु नंदनः । स्यात्पंचशतविष्कमं मंदरं परितो वनं ॥ २९० ॥ नव तत्र सहस्राणि शतानि नव षट्कलाः । चतुःपंचाशदप्यस्य विष्कंभः पुष्कलो गिरेः ।। २९१ ॥ एकत्रिंशत्सहस्राणि तथा तत्र चतुःशती । गिरेर्वाह्यपरिक्षेपः साधिका नवसप्ततिः || २९२ ॥ स एव च सहस्रोनो विष्कंभोऽभ्यंतरः स्फुटः । नंदने मंदरस्य स्यात् परिक्षेपोऽपि वक्ष्यते ॥२९३॥ अष्टविंशतिरेष स्यात् सहस्राणि शतत्रत्रयं । षोडशाग्राः कलाश्चाष्टौ परिधिः साधिका गिरेः ॥ २९४ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org