________________
९२
हरिवंशपुराणं ।
पंचमः सर्गः।। नद्यः षोडश गंगाद्याः समा भरतगंगया । ता रक्तारक्तवत्योस्तु तावत्यो निषधश्रताः ॥२६९॥ निषधान्नीलतस्तावत् संख्यास्तन्नामिकाः श्रुताः। नद्योऽपरविदेहेषु शीतोदां तु ब्रजति ताः ॥२७०॥ नाम्ना साधारणेनोक्तास्ता एवारातिनिम्नगाः। चतुर्दशसहस्रेस्तु प्रत्येकं सरितां युताः ॥२७२॥ अशीतिश्चापि चत्वारि सहस्राणि कुरुद्वये । प्रत्येकं निम्नगा नद्योरर्धमर्धतटद्रये ॥२७२॥ पंचलक्षाः सहस्राणि द्वात्रिंशत्त्रिशदष्टभिः । प्रत्येकमुभयोर्नद्यः शीताशीतोदयोर्युताः ॥२७३॥ दशलक्षाः चतुःषष्टिसहस्राण्यष्टसप्ततिः । सर्वो एवापगाः प्रोक्ताः पूर्वापरविदेहयोः ॥२७४।। चतुर्दशसहस्राणि प्रत्येकं सरितो मताः । गंगासिंध्वोः पतंत्यस्ताः रक्तारक्तोदयोश्च ताः ॥२७५।। रोह्यायां रोहितास्यायांसहस्राणि पतंति ताः। सुवर्णरूप्यकूलयोरष्टाविंशतिरेकशः ॥२७६॥ षट्पंचाशत्सहस्राणि ता हरिद्भरिकांतयोः । पतंति सिंधवो यहत् सनारीनरकांतयोः ॥२७७॥ संगताच समस्तास्ता गंगासिंध्वादिसिंधवः। तिम्रो लक्षा नवत्या द्वे सहस्र द्वादशापि च ॥२७८॥ स्युश्चतुर्दशलक्षास्तु वैदेह्यस्ताश्च संख्यया । षट्पंचाशत्सहस्राणि नवतिश्च समुद्रगाः २७९॥ द्वीपेऽस्मिन् कांचनैस्तुल्या वैडूर्यमयमूर्त्तयः । चतुस्त्रिंशत्सुरैः सेव्या वृषभपर्वताः ॥२८०॥ पूर्वापरविदेहांताः समुद्रतटसंगताः । देवारण्यवनाभोगाश्चत्वारः सरितोस्तटे ॥२८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org