________________
हरिवंशपुराण ।
पंचमः सर्गः । क्षेमा क्षेमपुरी ख्याता रिष्टा रिष्टपुरी परा । खड्गा मंजू या सार्द्धमौषधी पुंडरीकिणी॥२५७॥ कच्छादिषु यथासंख्यमष्टास्वष्टाविमाः पुरः। राजधान्यः समादिष्टाः शलाकापुरुषोद्भवाः।।२५८॥ सुसीमा कुंडलाभिख्या पुरी चान्या पराजिता । प्रभंकरा चतुर्थी तु पंचम्यंकवतीरिता ॥२५९॥ पद्मावती शुभाभिख्या साष्टमी रत्नसंचया। राजधान्यस्त्विमा मान्या वत्सादिषु यथाक्रम।।२६०॥ तथैवाश्वपुरी ज्ञेया परा सिंहपुरीति च । महापुरी तथैवान्या विजया च पुरी पुनः ॥२६१॥ अरजा विरजा वासावशोका वीतशोकया । राजधान्यः प्रसिद्धास्ताः पद्मादिषु यथाक्रमं ॥२६२॥ विजया वैजयंती च जयंती चाऽपराजिता । वक्रा खड्गा च वादिष्वयोध्यावध्यया समं ॥२६॥ दक्षिणोत्तरतो दैात् पुर्यो द्वादशयोजनाः । नवयोजनविस्तारा हेमप्राकारतोरणाः ॥२६४॥ अल्पेः पंचशतद्वारवहद्भिस्ताः सहस्रके: । रत्नचित्रकपाटाद्यैदेभैः सप्तशतयुताः ॥२६५|| द्वादश स्युः सहस्राणि रथ्यानां तु यथायथं । सहस्रं तु चतुष्काणां नगरीष्वक्षयात्मसु ॥२६६।। गंगासिंधू प्रतिक्षेत्रं कच्छादौ नीलतः श्रुते । सीतां प्रविशतोऽतीत्य विजया गुहाद्वयं ।।२६७॥ गिरिव्याससमायामे योजनाष्टकमुच्छ्रिते । गुहे द्वादशविस्तारे द्वे द्वे स्यातां गिरौ गिरौ ।।२६८॥
१-अंकावती इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org