________________
हरिवंशपुराणं ।
९०
पंचमः सर्गः ।
वक्षाराणां च तासां च मध्ये नद्योस्तद्वये । स्युः पूर्वापरयोर्मेरोर्विदेहाचतुरष्टकाः || २४४|| कच्छा सुकच्छा महाकच्छा चतुर्थी कच्छकावती । आवर्ता लांगलावर्ता पुष्कला पुष्कलावती । २४५।। अपराद्यास्त्वमी वेद्याः षट्खंडा विषयस्थिताः। शीतानीलांतराले स्युः प्रादक्षिण्येन वर्णिताः ॥ २४६ ॥ वत्सा सुवत्सा महावत्सा चतुर्थी वत्सकावती । रम्या रम्यका रमणीयाष्टमी मंगलावती || २४७ ॥ पूर्वादयास्त्वमी वेद्या विषयाश्चक्रवर्तिनां । शीतानिषधयोर्मध्ये व्यायता दक्षिणोत्तराः ॥२४८॥ पद्मा पद्मा महापद्मा चतुर्थी पद्मकावती । शंखा च नलिनी चैव कुमुदा सरिता तथा ॥ २४९ ॥ पूर्वतः प्रभृति प्रोक्ताः दक्षिणोत्तरमायताः । अष्टाविमे निविष्टास्तु शीतोदानिषधांतरे ॥ २५० ॥ वासुवा महावप्रा चतुर्थी वप्रकावती । गंधा चापि सुगंधा च गंधिला गंधमालिनी || २५१|| अपराद्यास्त्विमे प्रोक्ताः विषयाश्चक्रपाणिनां । नीलशीतोदयोर्मध्ये निविष्टास्तावदायताः ॥ २५२॥ सहस्रद्वितयं तेषां द्विशती च त्रयोदश । योजनाष्टमभागोना सा पूर्वापर विस्तृतिः || २५३॥ नदीविस्तारहीनस्य विदेहस्यार्धविस्तृतिः । आयामो देशवक्षारविभंगसरितामसौ ॥ २५४ ॥ तद्देशविस्तरायामास्तन्मध्ये रजताद्रयः । द्वात्रिंशद्भारतेनामी समाना नवकूटकाः ॥ २५५ ॥ श्रेण्योः स्युर्नगराण्येषां पंच पंचाशदेकशः । विद्याधराः वसंत्येषु परे द्वीपद्वये यथा ।। २५६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org