________________
हरिवंशपुराणं।
पंचमः सर्गः । विदेहेष्वपरेष्वेते चत्वारो देशभेदकाः। स्वायामेन प्रसिद्धेन शीतोदानिषधस्पृशः ॥२३१॥ चंद्रसूर्यौ च मालांतो नागमालस्तथाचलः । मेघमालश्च ते मध्ये नीलशीतोदयोः स्थिताः॥२३२॥ सरित्तटेषु चोच्छ्रायस्तेषां वक्षारभूभृतां । शतानि पंच शेषं तु पूर्ववक्षारवर्णितं ॥२३३॥ प्रत्येकं षोडशस्तेषु मूर्ध्नि कूटचतुष्टयं । कुलाचलांतकूटेषु दिक्कुमार्यो वसंति ताः ॥२३४॥ नदीसमीपकूटेषु जिनेंद्रायतनानि तु । तथा मध्यमकूटेषु व्यंतराः क्रीडनालयाः ॥२३५॥ भद्रशालवनं मेरोः पूर्वापरदिगायतं । नानाद्रुमलताकीर्ण वर्णनीयं यथाक्रमं ।। २३६ ॥ आयामो भागयोस्तस्य द्वाविंशतिसहस्रकः । प्रत्येकं द्विशती सार्की दक्षिणोत्तरविस्तृतिः ॥२३७॥ वनात् पूर्वापरांतस्था वेदिका योजनोच्छ्रितिः। क्रोशावगाहिनी ज्ञेया विस्तृता क्रोशयोयं ॥२३८॥ नीलात् ग्राहवती सीता वाहिनी हृदवत्यपि । पंकवत्यपि यांतीमा वक्षाराभ्यंतरे स्थिताः ॥२३९।। नदी तप्तजला पूर्वा शीतामेवैति नैषधी । ततो मचजला नाम्ना तथोन्मत्तजलाऽपरा ॥२४०॥ क्षीरोदाऽन्या च शीतोदा स्रोतोऽतर्वाहिनी नदी। विशंति नैषधोत्पन्नाः शीतोदां सुमहानदीं॥२४१॥ तामुत्तरविदेहेषु पश्चिमा गंधमादिनी । सा फेनमालिनी नीलात् संप्राप्ता चोर्मिमालिनी ॥२४२॥ नाना विभंगनद्यस्ता प्रमाणे रोह्यया समाः। तोरणेषु वसंत्यासां संगमे दिक्कुमारिकाः ॥२४३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org