________________
८८
हरिवंशपुराणं ।
पंचमः सर्गः। सिद्धाख्यं माल्यवस्कूटं तथोत्तरकुरूक्तिकं । कच्छाकूटं विनिर्दिष्टं तथा सागरकं परं ॥२१९॥ रजतं पूर्णभद्राख्यं सीताकूटं ततः परं। कूटं हरिसहाभिख्यं नवमं माल्यवत्स्वपि ॥२२०॥ सिद्धं सौमनसाभिख्यं कूटं देवकुरुध्वनि । मंगलं विमलं चैव कांचनाख्यं विशिष्टकं ॥२२१॥ सिद्धं विद्युत्प्रभाभिख्यं पुनर्देवकुरुश्रुति । पद्मकं तपनं चैव स्वस्तिकं च शतज्वलं ॥२२२।। शीतोदाकूटमन्यत्तु कूटं हरिसहश्रुति । विद्युत्प्रभेष्वशेषेषु नवैतानि भवंति तु ॥२२३॥ उच्छ्रायोऽपि सर्वेषां कूटानां च यथायथं । आत्माधारावगाहस्य समानस्तु प्रभाषितः ॥२२४॥ सिद्धायतनकूटेषु तेषु सर्वेषु ये गृहाः । सिद्धबिंबसनाथास्ते विभ्राजते यथायथं ॥२२५॥ शेषोभयांतकूटेषु रमते व्यंतरामराः । मध्ये दिक्कुमार्यस्तु क्रीडागारेषु चारुषु ॥२२६॥ भोगंकरा भोगवती सुभोगा भोगमालिनी । वत्सामित्रा सुवत्सोऽन्या वारिपेणा बलाचिता।।२२७॥ विदेहे चित्रकूटाख्यः पद्मकूटश्च पर्वतः । नलिनश्चैकशैलश्च नीलशीतांतरायताः ॥२२८॥ । पूर्वाद्यास्तु त्रिकूटश्च शैलो वैश्रवणोंजनः । आत्मांजनश्च सर्वेऽपि ते शीतानिषधस्पृशः ।।२२९॥ श्रद्धावान् सुप्रसिद्धोऽनिर्विजयावांस्तथैव च । आशीविषस्तदन्यस्तु सुखावह इतीरितः ॥२३०॥
१ सुमित्रान्या इति पाठांतरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org