SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । पंचमः सर्गः। तटे तु दक्षिणे तस्याः कुमुदं कूटमुत्तरे । पलाशमपराशायां ते तु मंदरतो मते ॥ २०७॥ पश्चात्तटेऽस्ति शीताया वतंसं कुटमुत्कटं । रोचनाख्यं पुरस्तात्तु मेरोरुत्तरतश्च ते ॥ २०८ ॥ भद्रशालवने भांति समान्येतानि कांचनैः वसंति तेषु देवास्ते दिग्गजेंद्रा इति श्रुताः ॥२०९ ॥ अपरोत्तरदिग्भागे मंदराद् गंधमादनः । ख्यातः कांचनकायोऽसौ सर्वतः पर्वतः स्थितः ॥२१०॥ मेरोःपूर्वोत्तराशायां माल्यवानिति विश्रुतः । वैड्येमयमूर्तिः स प्रियं भाति स्वयंप्रभः ॥२११ ।। मेरोःप्रारदक्षिणाशायां सौमनस्यस्तु राजतः । विद्युत्प्रभोऽपरे कोणे तपनीयमयः स्थितः ।।२१२॥ ते नीलनिषधप्राप्तौ चतुःशतनिजोच्छ्याः । मेरुपर्वतसंप्राप्तौ प्रोक्ताः पंचशतोच्छ्याः ॥२१३ ॥ निजोच्छितिचतुर्भागाः स्वोभयांतावगाहनाः । देवोत्तरकुरुप्राप्तौ स्युः पंचशतविस्तृताः ॥२१४॥ सहस्राणि पुनस्त्रिंशन्नवाधिकशतद्वयं । आयामः षट् कलाश्चैषां चतुर्णामपि वर्णितः ॥२१५।। मेरोः प्रभृति कूटानि चतुर्वपि यथाक्रमं । संति सप्त नवतेषु पुनः सप्त नवादिषु ।।२१६॥ सिद्धायतनकूटं स्याद् गंधमादननामकं । तथोत्तरकुरुप्रख्यं गंधमालिनिकाह्वयं ।।२१७॥ कूटं च लोहिताक्षं च स्फुटिकानंदनामनी । गंधमादनशैलेषु सप्तैतानि भवंति तु ॥२१८॥ १-समीपे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy