________________
हरिवंशपुराण।
पंचमः सर्गः। अध्यः हि सहस्रार्द्ध नीलतो नीलवान हृदः । तथोत्तरकुरुर्नाम्ना चंद्रश्चैरावणोऽपरः ॥१९४॥ माल्यावांश्च नदीमध्ये सर्वे पंचाशतांतराः। ते दक्षिणोत्तरायामाः पद्महदसमा मिताः ॥ १९५।। निषधादुत्तरो नद्यां निषधो नामतो हृदः । नाम्ना देवकुरुः सूर्यः सुलसश्च तडित्प्रभः ॥१९६॥ रत्नचित्रतटाः सर्वे वज्रमूला महाहृदाः । तेषु नागकुमाराः स्युः पद्मप्रासादवासिनः ॥१९७।। जलाद् द्विकोशमुद्विद्धं योजनोच्छ्रितविस्तृतं । पद्म प्रतिहृदं क्रोशविस्तृतोच्छ्रितकर्णिकं ॥१९८॥ पद्माः शतसहस्रं हि चत्वारिंशत्सहस्रकैः । शतं सप्तदशाग्रं स्यात् प्रतिपद्म परिच्छदः ॥ १९९ ॥ एकैकस्य हृदस्यात्र पर्वता दश सद्मुखाः । भांति कांचनकूटाख्याः सीतासीतोदयोस्तटे॥२०॥ उच्छ्रायमूलविस्तारैः शतयोजनकाः समाः पंचसप्ततिका मध्ये पंचाशद्विस्तृतारकाः ॥२०१॥ तेषामुपरि प्रत्येकमेकैकाकृत्रिमाः शुभाः। प्रतिमाश्च निरालंबाः मोक्षमार्गकदीपिकाः ॥२०२॥ धनुःपंचशतीतुंगा माणिकांचनरत्नगाः । पंचमेरुषु विख्यातं सहस्रोत्तरकूटकं ॥ २०३॥ आक्रीडनग्रहेष्वेषां शिखिरेषु महात्विषः । देवाः कांचनकाभिख्याः संक्रीडते समंततः ॥२०४॥ शीतोत्तरतटे कूटं पद्मोत्तरमनुत्तरे । तटे तु नीलवत्कूटं पूर्वतो मेरुपर्वतात् ।। २०५ ॥ सीतोदापूर्वतीरे तु कूटं स्वस्तिकमस्ति तत् । तदजनगिरिमख्यं पश्चात्ते मेवनुत्तरे ॥ २०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org