________________
हरिवंशपुराणं।
पंचमः सर्गः। जंबूवृक्षस्य तस्याधस्त्रिंशद्योजनविस्तृताः। पंचाशद्योजनोच्छ्रायाः प्रासादादेवयोस्तयोः॥१८२॥ वेदिकांतरदेशेषु चक्रवालेषु सप्तसु । प्रधानैकट्ठमोपेताः परिवारोऽस्य पादपाः ॥१८३॥ चत्वारोऽनंतरं तस्य ततश्चाष्टोत्तरं शतं । चत्वारि च सहस्राणि सहस्राणि च षोडश ॥१८४॥ द्वात्रिंशच सहस्राणि चत्वारिंशत्तु तान्यतः । चत्वारिंशत् सहाष्टाभिः प्रधानैः सप्तभिर्युताः ॥१८५॥ मिश्राः शतसहस्रं तु चत्वारिंशत्सहस्रकैः। संजायते समस्तास्ते शतमेकोनविंशतिः ॥१८६॥ दक्षिणापरतो मेरोः शीतोदायास्तटे परे । निषधस्य समीपस्थं राजतं शाल्मलीस्थलं ॥१८७॥ जंबूस्थलसमस्तत्र शाल्मलीवृक्ष इष्यते । वक्तव्या तस्य निःशेषा जंबूवृक्षस्य पणेना ॥१८८॥ तत्र दक्षिणशाखायां सिद्धायतनमक्षयं । प्रासादास्तु त्रिशाखासु तत्र देवाविमौ मतौ ।।१८९।। वेणुश्च वेणुदारी तावादरानादरौ यथा । उत्तरेषु कुरुविष्टौ तथा देवकुरुध्विमौ ॥१९०॥ नीलाद्रेर्दक्षिणाशायां योजनैकसहस्रके । सीतापूर्वतटे चित्र विचित्रं कूटमप्यतः ॥१९१॥ निषधस्योत्तराशायां सीतोदातटयोस्तथा । यमकूटं मतं पूर्व मेघकूटमतः परं ॥१९२॥ नामिपर्वतनामानि तानि कूटानि तेषु तु । देवाः स्वकूटनामानः क्रीडति निनयेच्छया ॥१९३॥
१-परिवारद्रुमाः मताः इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org