________________
हरिवंशपुराणं ।
पंचमः सर्गः ।
८४
त्रिचत्वारिंशतं सैकसहस्राणि च सप्ततिः । चतुरंशा नवांशाश्च कुरुवृत्तं प्रकीर्त्तितं ॥ १७० ॥ सहस्राणि त्रयस्त्रिंशत् षट्शती चतुरंशकाः । अशीतिश्चतुरग्राऽसौ विदेहक्षेत्र विस्तृतिः || १७१॥ मेरोः पूर्वोत्तराशायां सीतायाः पूर्वतः स्थितं । समीपं नीलशैलस्य जंबूस्थलमुदीरितं ॥ १७२ ॥ पंचचापशतव्यासा गव्यूतिद्वयमुद्धृता । स्थलस्योपरि पर्येति सर्वतो रत्नवेदिका ॥ १७३॥ तस्य पंचशती व्यासो मध्ये बाहुल्यमष्ट तु । गव्यूतिद्वितयं चांते स्थलस्य परिकीर्तितं ॥ १७४॥ जंबूनदमये तत्र पीठिकाष्टोच्छ्रया स्थिता । मूलमध्याग्रविस्तारैर्द्वादशाष्टचतुर्मिता ॥१७५॥ raisesन्याः षडेतस्याः परितो मणिवेदिकाः । प्रत्येकमुपरि द्वे द्वे तासां ताः पद्मवेदिकाः ।। १७६ ॥ मूले गव्यूतिविस्तीर्णः स्कंधोच्छ्रायद्वियोजनः । अवगाहद्विगव्यूतिः शाखाव्याप्ताष्टयोजनः।। १७७॥ अश्मगर्भमहास्कंधो वज्रशाखोपशोभितः । राजद्राजतपत्राढ्यो मणिपुष्पफलांकुरः ॥ १७८ ॥ रक्तपल्लवसंता नरंजितांत दिगंतरः । पीठिकायां पुरोक्तायां जंबूवृक्षः प्रकाशते || १७९ ॥ पृथिवीपरिणामस्य नानाशाखोपशोभिनः । महादिक्षु चतस्रोऽस्य महाशाखा महातरोः ॥ १८० ॥ तत्र चोत्तरशाखायां सिद्धायतनमद्भुतं । आदरानादरावासाः प्रासादा स्तिसृषु स्थिताः ॥ १८१ ||
१ - शीतायाः इत्यपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org